SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम्-१ [1] "जेसिं अवड्डपुग्गलपरिअट्टो सेसओ अ संसारो। ते सुक्कपक्खिया खलु अवरे पुण किण्हपक्खीया" ॥७२॥ व्याख्या-जेसिमिति येषाम् अपार्द्धपुद्गलपरावर्तः शेषसंसारः, येषामर्द्धपुद्गलपरावर्तोऽवशिष्टः संसार इत्यर्थः । ते शुक्लपाक्षिकाः, खलु-निश्चयेन । कृष्णपाक्षिकलक्षणमाह-अहिए-अधिके, अर्धपुद्गलपरावर्तादधिकसंसारः कृष्णपाक्षिका इति । (श्रावकप्रज्ञप्तिः गा० ७२) । 1/8 [2] प्राणायामः प्राणयमः, श्वास-प्रश्वासरोधनम् । प्रत्याहारस्त्विन्द्रियाणाम्, विषयेभ्यः समातिः ॥८३॥ प्राणस्य मुखनासिकासञ्चारिणो वायोरासमन्ताद् यमनं गतिच्छेदः प्राणायामः एवं प्राणस्य यमनं प्राणयमः । बाह्यस्य वायोराचमनं श्वासः, कौष्ठ्यस्य वायोनिःश्वसन-प्रश्वासः, श्वास-प्रश्वासयोः रोधनं-गतिच्छेदः श्वास-प्रश्वासरोंधनम् । यद्योगशास्त्रम् प्राणायामो गतिच्छेदः, श्वास-प्रश्वासयोर्मतः । रेचकः पूरकश्चैव, कुम्भकश्चेति स त्रिधा ॥ । [योगशास्त्रम्-प्रकाशः-५ श्लो० ४] इति । द्वे श्वास-प्रश्वासरोधनस्य ॥ विषयेभ्यः इन्द्रियाणां समाहृतिः-संक्षेपः, तन्नामैकं प्रत्याहारः । प्रतीपमाहरणं प्रत्याहारः । प्रत्यापर्वः "हञ्-हरणे" (भ्वा० उ० अ०) भावे घञ् । एकमिन्द्रियाणां विषयेभ्यः सङ्कोचनस्य ॥८३॥ [अभि०चिंना०श्लो० ८३] 2/1 [3] समाधिस्तु तदेवार्थ-मात्राभासनरूपकम् । एवं योगो यमाद्यङ्गैरष्टाभिः सम्मतोऽष्टधा ॥८५॥ सम्यगाधीयते मनोऽत्रेति समाधिः । समाङ् पूर्वः "डुधाञ् धारणपोषणयोः" (ह्वा०उ०अ० ) उपसर्गे धोः किः ३।३।९२ इति किः । तदेव इति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy