________________
२२०
श्रीज्ञानमञ्जरी पुनः ग्रन्थाभ्यासरूपं फलं दर्शयति
जातोद्रेकविवेकतोरणततौ धावल्यमातन्वते, (ति) हृद्रोहे समयोचितः प्रसरति स्फीतश्च गीतध्वनिः । पूर्णानन्दघनस्य किं सहजया तद्भाग्यभयाऽभवद्, नैतेद्ग्रन्थमिषात्करग्रहमहश्चित्रं चरित्रश्रियः ॥१५॥
जातोद्रेकेति-एतद्ग्रन्थमिषात्-ज्ञानसारग्रन्थाभ्योसव्याजात् चारित्रश्रियः करग्रहमहः-पाणिग्रहणमहोत्सवः प्रसरति इति संटङ्कः, शेषं स्वत ऊह्यम् ॥१५॥
भावस्तोमपवित्रगोमयरसैः लिप्तैव सर्वत्र भूः, संसिक्ता समतोदकैरथ पथि न्यस्ता विवेकस्रजः । अध्यात्मामृतपूर्णकामकलशचक्रेऽत्र शास्त्रे पुरः, पूर्णानन्दघने पुरं प्रविशति स्वीयं कृतं मङ्गलम् ॥१६॥
भावस्तोम इत्यादि वृत्तं- पूर्णानन्दघने-शुद्धात्माने पुरं प्रविशति स्वीयं कृतं मङ्गलमिति वाक्यमित्यनादिसंसारसंसरणमिथ्यात्वासंयमकषाययोगहेतुचतुष्टयोपचितज्ञानावरणादिकर्मवृतानन्तपर्यायस्य अंलब्धात्मसाधनस्य विषमरोगशोकादिकण्टकाकुलायामन्तरायोदयालब्धाहारादियोगारतितापतप्तायाम्, महाव्यसनसहस्रसिंहव्याघ्रव्याप्तायाम्, कुप्रावचनिकलुण्टाकधाटीहुङ्कारजितभीषणायाम्, कुदेववेतालत्रासितायाम्, इन्द्रियविषयसुखबुद्धिलक्षणभ्रान्तिमरुमरीचिकाभूमिभूतायाम्, स्त्रीविलासादिविषवृक्षच्छायायुतायाम्, महाटव्यां धनादिपिपासाव्यालोल१. चैतद् A.D., S.M., B.1. । २. ग्रन्थाभ्यासात् सर्वप्रतिषु । ३. संसंक्ता B.1., V.1.2. । ४. समितो० V.1.2., A.D. I ५. शुद्धात्मज्ञानपुरे प्रविशतः V.1.2., A.D., B.1.2., S.M. L.D.1. । ६. व्यथायाम् L.D.1 । ७. विषये सुख० L.D.1 । ३८ भूमिभ्रमियाताम् L.D.1 । ९. पिपासया लोल्यमात्रस्य L.D.1 ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org