________________
सर्वनयाश्रयणाष्टकम् (३२)
२०९ तत्त्वावबोधाय तत्त्वार्थिनं प्रति यद्वदति स धर्मवादः । सर्वनयज्ञानां-सर्वनयज्ञानवताम्, धर्मवादतो वक्ता-तत्त्वकथनरसिकः, श्रोता च तत्त्वज्ञानरसिक इति उभयोर्यथार्थयोगे धर्मकथनतो विपुलं श्रेयः-कल्याणम् । यदि चन श्रोता तादृक् तथापि तत्त्वबोधनेच्छया धर्मकथनं हिताय । च-पुनः, शुष्कवादात्, च पुनः, विवादात् परेषामेकान्तदृष्टीनां विपर्ययः-अश्रेयः-अकल्याणम् । सूक्ष्मार्थकथनं पात्रयोग्यतया धर्महितकरणं तु भावानुकम्पा ॥५॥ अथ सन्मार्गप्रशंसनामाह
प्रकाशितं जनानां यैर्मतं सर्वनयाश्रितम् । चित्ते परिणतं चेदम्, येषां तेभ्यो नमो नमः ॥६॥
प्रकाशितमिति-यैः-सर्वज्ञाचार्योपाध्यायैः-सम्यग्दर्शनज्ञानचारित्रपरिणतैः श्रीहरिभद्रादिभिः संविग्नपाक्षिकैः यथार्थोपदेशकैः, सर्वनयाश्रितं-सर्वनयसापेक्षं स्याद्वादगर्भितं मतमिष्टं शासनं मोक्षाङ्गरूपं प्रकाशितम्, तेभ्यो नमः । शुद्धोपदेशका एव विश्वे पूज्याः । उक्तं च भवभावनायाम्
भदं बहुस्सुआणं, बहुजणसंदेहपुच्छणिज्जाणं । उज्जोइअभुवणाणं, झीणमि वि केवलमयंके ॥५०६॥ ते पुज्जा तियलोए, सव्वत्थ वि जाण निम्मलं नाणं । पुज्जाण वि पुज्जयरा, नाणी य चरित्तजुत्ता य ॥५०५॥
[गा० ५०६. ५०५] तथा उपदेशमालायाम्[138] सावज्जजोगपरिवज्जणाओ सव्वुत्तमो जइधम्मो ।
बीओ सावगधम्मो, तइओ संविग्गपक्खपहो ।५१९॥
१. तत्त्वावबो० L.D.1.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org