________________
तपोऽष्टकम् (३१) निरूपित एव । आचाराङ्गचूर्णौ चापि अङ्गत्थसुत्तं सव्वमविवागं इति . वचनात् । अतोऽभिनवेन्द्रियसुखाभिलाषरहितस्य निर्मलात्मद्रव्यसाधकस्य कष्टाचरणं तप इति । अत्र पञ्चवस्तुके उपवासादिषु असातानि रेति भोजने सातानिर्जरा साम्ये उपवासादिकरणं किमर्थमिति ? तत्रोच्यते- भोजनादिषु षट्कायपरिमन्थः', उपवासे च तदभावाद् अशुभनवकर्मबन्धाभावे संवरपूर्वकसकामनिर्जरामूलत्वाद् हितम् । तथा चास्यात्मनः साताविपाके सरागहेतुत्वेन इष्टसंयोगैकत्वता अनादिसहजपरिणमनाद् आतापनादिषु कर्मविपाकोपयोगत्वेन तथा परिणमनाद् असङ्गताकारणत्वात् त्याग एव साधनमूलं च । भरतादयः निदर्शनम्, तच्चाल्पकालसाधनासिद्धिवताम् । नहि चिरकालसाधनावतां सातादि । शुभसंनिकर्षे अव्यापकत्वपरिणामः । उक्तं च विशेषावश्यके-"रतिक्षमत्वं त्वल्पानां तेनातापनादिकरणमुचितं मुनीनाम्" । निक्षेपनयानां व्याख्या तु-नामतपः स्थापनातपः, सुगमम् । द्रव्यतपःआहारत्यागादि, भावतपः-आत्मस्वरूपैकाग्रत्वरूपम् । अत्र द्रव्यपूर्वक भावतपोग्रहणमिति ।
ज्ञानमेव बुधाः प्राहुः, कर्मणां तापनात्तपः । तदाभ्यन्तरमेवेष्टम्, बाह्यं तदुपबृंहकम् ॥१॥
ज्ञानमेव बुधाः प्राहुरिति-बुधाः-पण्डिताः, कर्मणाम्-आत्मप्रदेशसंश्लिष्टानाम्, तापनात् तीक्ष्णं ज्ञानमेव तपः प्राहुः । तत्तपः आभ्यन्तरमन्तरङ्गं प्रायश्चित्तादिकमिष्टम्, बाह्यमनशनादिकम्, तदुपबृंहकमाभ्यन्तरतपोवृद्धिहेतुः । द्रव्यनिक्षेपस्य कारणरूपत्वात्, द्रव्यतपसोऽपि भावतपसः कारणत्वमेव, तेन इष्टम् ॥१॥
ऑनुस्त्रोतसिकी वृत्तिर्बालानां सुखशीलता । प्रातिस्रोतसिकी वृत्तिर्ज्ञानिनां परमं तपः ॥२॥
१. पलिमन्थ० S.M., V.2., B.2. पलिपन्थ: L.D.1. । २. तया S.M., B.2., V.1.2. L.D.1. । ३. अनु० B.2., V.2. I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org