________________
१५
ध्यानाष्टकम् (३०) रागादिभिरनाक्रान्तम्, क्रोधादिभिरदूषितम् । आत्मारामं मनः कुर्वन्, निर्लेपः सर्वकर्मसु ॥४॥ विरतः कामेभोगेभ्यः, स्वशरीरेऽपि निःस्पृहः । संवेगहूदनिर्मग्नः, सर्वत्र समतां श्रयन् ॥५॥ नरेन्द्रे वा दरिद्रे वा, तुल्यकल्याणकामनः । अमात्रकरुणापात्रम्, भवसौख्यपराङ्मुखः ॥६॥ सुमेरुरिव निष्कम्पः, शशीवानन्ददायकः । समीर इव निःसङ्गः, सुधीर्ध्याता प्रशस्यते ॥७॥
[यो०शा० प्र० ७. श्लो० २-७] इति ध्यातृस्वरूपम् । एवंविधो ध्याता अन्तरात्मा-साधकात्मा । तु-पुनः, ध्येयः२-ध्यातुं योग्यः, परमात्मा-क्षीणघातिकर्मा अर्हन्, नष्टाष्टकर्मा सिद्धो वा । वस्तुवृत्त्या सत्तागतः सिद्धात्मा ध्येयः प्रकीर्तितः । च-पुनः, ऐकाग्रयसंवित्तिः-ऐकाग्रयं तन्मयत्वेन परमात्मस्वरूपे अनन्तपर्यायात्मके एकाग्रत्वेन संवित्तिः-ज्ञानं ध्यानमुच्यते । इत्यनेन अर्हदादिशुद्धगुणज्ञानसंवेदनतन्मयता ध्यानम् । चेतनावीर्यादीनां सर्वक्षयोपशमानां स्वरूपोपयोगलीनत्वं ध्यानम् । तत्र ध्यातुः ध्येये रेतदेकाग्रतारूपे ध्याने समापत्तिः निर्विकल्पता तारतम्यरहिता चित्परिणतिः एकता ज्ञेया ॥२॥ तत्र दृष्टान्तेन कथयति
मणौ बिम्बप्रतिच्छायासमापत्तिः परात्मनः । क्षीणवृत्तौ भवेद् ध्यानादन्तरात्मनि निर्मले ॥३॥
मणौ बिम्बेति- यथा मणौ-रत्ने, बिम्बस्य प्रतिच्छाया तथा अन्तरात्मनि स्वात्मस्वरूपे, परात्मनः-निर्मलात्मनः ध्यानात् समापत्तिःसिद्धात्मत्वस्वात्मत्वैकतारूपा भवेत् । कथम्भूते अन्तरात्मनि ? निर्मले१. रागेभ्यः, S.M., V.1., B.1., रोगेभ्यः A.D., V.2. । २. ध्येयं S.M., A.D., B.1.2.. V.2. । ३. तदैकाग्रयता० A.D.V.2. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org