SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ १९१ भावपूजाष्टकम् (२९) दयाम्भसा इति भक्तिश्रद्धानेति श्लोकद्वयस्य युग्मतो व्याख्यानं दर्शयति । हे उत्तम ! एवंविधं शुद्धात्मानम् अनन्तज्ञानादिपर्यायम् आत्मरूपं देवं नव इति नवप्रकारब्रह्मरूपाङ्गतः अर्चय-पूजय । कीदृशो भूत्वा ? इत्याह-दया-द्रव्यभावस्वपरप्राणरक्षणारूपा सा एव अम्भ:जलं पानीयं तेन कृतं स्नानं-पावित्र्यं येन सः । संतोषःपुद्गलभावपिपासाशोकाभावरूपः ते एव शुभानि वस्त्राणि तेषां भृत्धारकः विवेकः-स्वपरविभजनरूपं ज्ञानं तदेव तिलकं तेन भ्राजीशोभमानः । पुनः कथम्भूतः? भावना-अर्हद्गुणैकत्वरूपा तया पावन:पवित्रः आशय:-अभिप्रायः यस्य सः । पुनः भक्तिः-आराध्यता श्रद्धाप्रतीतिः ‘एस अट्ठे परमठे' एवंरूपा, (तद्रूपेण) घुसृणेन उन्मिश्रं पाटीरजं तस्य द्रवाः तैः शुद्धात्मा-परमेश्वरः स्वकीयात्मापि दीव्यति स्वरूपे इति देवस्तम् अर्चय-पूजय तद्भक्तिरतो भव इति ॥१॥२॥ अथ अनुक्रमेण पूजाप्रकारानाह क्षमापुष्पस्रजं धर्म-युग्मक्षौमद्वयं तथा ।। ध्यानाभरणसारं च, तदङ्गे विनिवेशय ॥३॥ क्षमापुष्पस्रजमिति- हे भव्य ! तदङ्गे-आत्मस्वरूपरूपे अङ्गे क्षमां-क्रोधोपशमवचनधर्मक्षमारूपाम्, स्रजं-पुष्पमालाम्, विनिवेशयस्थापय । तथा-तथैव धर्मयुग्मं-श्रावकसाधुरूपं श्रुतचारित्ररूपं वा क्षौमवस्त्रद्वयं निवेशय । च-पुनः, ध्यान-धर्मशुक्ले ते एव आभरणस्य सारं-प्रधानम्, परमब्रह्मणि निवेशय । इत्येवं गुणपरिणमनरूपां पूजां कुरु ॥३॥ मदस्थानभिदात्यागैलिखाने चाष्टमङ्गलीम् । ज्ञानाग्नौ शुभसंकल्प-काकतुण्डं च धूपय ॥४॥ १. द्वयम् सर्वप्रतिषु । २. आत्मा० सर्वप्रतिषु । ३. पूजां कुरु L.D.1. । ४. कृतः स्नानः सर्वप्रतिषु । ५. शुभा-सर्वप्रतिषु । ६. क्षौम-चारित्रद्वयं S.M., B.1.2., V.2.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy