________________
श्रीज्ञानमञ्जरी
१८८
ततः श्रावकाणां तु हिंसादिसर्वपरवृत्तिर्गुणिभक्तिरूपा हिता । तु-पुन:, योगिनो ज्ञानं यज्ञम्, ज्ञानरमणमेव हितम्, न हि मुनिर्बाह्यप्रवृत्तिरतो ज्ञाने रममाणस्तत्त्वं साधयति ||४||
भिन्नोद्देशेन विहितम्, कर्म कर्मक्षयाऽक्षमम् । क्लृप्तभिन्नाधिकारं च पुत्रेष्ट्यादिवदिष्यताम् ॥५॥
भिन्नोद्देशेनेति- भिन्नोद्देशेन - परमात्मसाधनोद्देशमन्तरेण भिन्नेनपुण्यादिवाञ्छोद्देशेन विहितं - कृतम्, कर्म - पूजादिकार्यम्, कर्मक्षयाय अक्षमम्-असमर्थं भवति । न हि भिन्नसाध्येन कृतं दयादानादिकं धर्मसाध्यशून्यानां सत्प्रवृत्तिः, बालक्रीडातुल्या । कल्पितभिन्नाधिकारं कर्म कार्यं पुत्रेष्ट्यादिवत् इष्यतामिति । यथा च जलार्था वनिता कूपोपकण्ठे जलार्थं घटे च रज्जुबन्धं कुर्वती परपुरुषरूपव्याकुलितचित्ता स्वपुत्रमेव पाशबन्धं कृतवती दुःखभाजनं भवति । एवं साध्यच्युतानां क्रिया दु:खहेतुरूपा उक्ता ॥५॥
* ब्रह्मार्पणमपि ब्रह्म - यज्ञान्तर्भावसाधनम् । ब्रह्माग्नौ कर्मणो युक्तम्, स्वकृतत्वस्मये हुते ॥६॥
ब्रह्मार्पणमपि ब्रह्म इति - भो विद्वन् ! यदि त्वं ब्रह्मार्पणं सर्वं स्वकृतं ब्रह्मणि - परमेश्वरे यदर्पणं - प्रयच्छनं (प्रदानं) तत्रैवारोपणम् । एतत्सर्वं परमेश्वरकृतं जातं मत्कृतं न किंचनेति धीरिति यावत् । तद् ब्रह्मयज्ञान्तर्भावसाधनं - ब्रह्मयज्ञो - ज्ञानयज्ञस्तस्य योऽन्तर्भावः - आत्मीयभावफल
१. A.D.V. 1. प्रतौ एषपाठोऽस्ति । २. एतच्छ्लोकवृत्तिः सर्वप्रतिषु न । ★ ब्रह्मार्पणं ब्रह्महविः ब्रह्माग्नौ ब्रह्मणाहुतम् ।
ब्रह्मैव तेन गन्तव्यम्, ब्रह्मकर्मसमाधिना ॥१॥
कर्मण्यकर्म यः पश्येत्, अकर्मणि च कर्म यः ।
स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥२॥
इत्यादि गीतोक्तनिश्चयनये । सर्व साधनने खात्मपरताने भारावु. परा निरंशन ब्रह्मने दुर्भ तत्इसार्थशत V. 1 टिप्पनके एषपाठोऽस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org