SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ १६६ • चर्मचक्षुर्भूतः सर्वे देवाश्चावधिचक्षुषः । सर्वतश्चक्षुषः सिद्धाः साधवः शास्त्रचक्षुषः ॥ १ ॥ , चर्मचक्षुर्भृत इति - सर्वे - तिर्यग्मनुष्याः चर्मचक्षुर्भृतः, मतिश्रुतज्ञानावरणीय - चक्षुर्दर्शनावरणीय - वीर्यान्तरायक्षयोपशमर्मूलं जातिनामकर्म-पर्याप्तिनामकर्म - शरीरनामकर्म-निर्माणनामकर्मोदयजन्यचक्षुर्भृतः तद्धराः । च-पुनः, देवा: - (सुराः) अवधिचक्षुषः - अवधिज्ञानावरणीयावधिदर्शनावरणीयक्षयोपशमसमुत्थज्ञानदृष्टयः । सिद्धाः सर्वचक्षुर्धराःसर्वप्रदेशकेवलोपयोगमयाः साधवः-निर्ग्रन्थाः शास्त्रचक्षुषः - शास्त्रावलम्बिज्ञानधराः । उक्तं च , आगमचक्खू साहू, चम्मचक्खूणि सव्वभूआणि । देवा य ओहिचक्खु, सिद्धा पुण सव्वओ चक्खू ॥१॥ अतः निर्ग्रन्थानां वाचनादिस्वाध्यायमुख्यत्वम् ॥१॥ श्रीज्ञानमञ्जरी पुरः स्थितानिवोर्ध्वाधस्तिर्यग्लोकविवर्त्तिनः । सर्वान् भावानवेक्षन्ते ज्ञानिनः शास्त्रचक्षुषा ॥२॥ > पुरः स्थितानिति - ज्ञानिनः शास्त्रचक्षुषा - आगमोपयोगेन ऊर्ध्वाधस्तिर्यग्लोकविवर्त्तिनः - त्रैलोक्यवर्त्तिनः भावान् - पदार्थस्वरूपान् सर्वान् सूक्ष्मबादरान् सहजान् विभावजान् परोक्षानपि क्षेत्रान्तरस्थानपि, आगमबलेन पुरः स्थितानिव - सन्मुखस्थानिव अवेक्षन्ते - पश्यन्ति । अत्र दर्शनं मानसं श्रुतक्षयोपशमजं ज्ञेयम् ॥२॥ शासनात् त्राणशक्तेश्च, बुधैः शास्त्रं निरुच्यते । वचनं वीतरागस्य, तत्तु नान्यस्य कस्यचित् ॥३॥ शासनादिति - बुधैः - विद्वद्भिः च पुन:, त्राणशक्तेः - भवभीतकर्मावगुण्ठितविभावभुग्नजीवानां त्राणं- रक्षणं तस्य शक्तिः - सामर्थ्यं यस्य सः, Jain Education International १. मूल० A.D.,V. 2., B.1. । २. धरा: V. 1., B.2., S.M. । ३. चक्षुषः V.1., B.2.,A.D. I For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy