SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ श्रीज्ञानमञ्जरी लोकेति - साधुः - परमात्मसाधनोद्यतः, सुखम् आस्ते - तिष्ठति । कथम्भूतः साधुः ? लोकसंज्ञोज्झितः - लोकसंज्ञारहितः । पुनः किम्भूतः ? परब्रह्मण: - शुद्धात्मस्वरूपस्य समाधिः - स्वास्थ्यं तद्वान् तन्मयः आत्मज्ञानानन्दमग्नः । पुनः कथम्भूतः ? गतः - नष्टः द्रोह:मोषणशीलः ममता - परभावेषु ममकारता, मत्सरः - अहंकारः एव ज्वरः–तापो यस्य सः । इत्यनेन कषायकालुष्यरहितः स्वात्मारामः स्वात्मज्ञानी तत्त्वानुभवयुक्तः मुनिः सुखं तिष्ठति । लोकसंज्ञात्यागेन स्वरूपयोगभोगसुखमग्ना निर्ग्रन्थाः औदयिकमिन्द्रियसुखं दह्यमानस्वगृहप्रकाशवन्मन्यन्ते न सुखमस्ति ॥८॥ ॥ इति व्याख्यातं लोकसंज्ञा ( त्यागा )ष्टकम् ॥ २३ ॥ १६४ अथ शास्त्राष्टकम् ॥ २४ ॥ अथ क्रमायातं यथार्थोपयोगकारणभूतं शास्त्राष्टकं प्ररूप्यते, तत्र शास्त्रस्वरूपम् ऐकान्तिकान्त्यन्तिक- निर्द्वन्द्व-निरामय - परमात्मपदसाधनेस्याद्वादपद्धत्या यत्र शास्यते तत् (शास्त्र) शासनम् । नहि भारतरामा - यणादयः इहलोकशिक्षारूपाः शास्त्रत्वव्यपदेशं लभन्ते । तथा - जैनागममपि सम्यग्दृष्टिपरिणतस्य शुद्धवक्तुरेव मोक्षकारणम्, मिथ्यात्वोपहतानां तु भवहेतुरेव । उक्तं च- नन्दीसूत्रे तच्चैवम् [100] दुवालसंगं गणिपिडगं सम्मत्तपरिग्गहिअं सम्मसुअं, मिच्छत्तपरिग्गहिअं मिच्छसुअं ॥ [ सू. ७१-७२] तथा च पूज्यै: [101] सदसदविसेसणाओ, भवहेऊ जदिच्छिओवलम्भाओ । नाणफलाभावाओ, मिच्छादिट्टिस्स अण्णाणं ॥ ११५ ॥ [विशेषा०गा. ११५] १. साधना V. 1.,S.M., B.2. । २. तत्र B.2. । ३. शास्त्रव्यप० V. 1., A.D. विना । ४. इच्चेवं A. D. विना । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy