________________
श्रीज्ञानमञ्जरी __लोकसंज्ञेति-लोकसंज्ञा-लोकरीतिरूपा महानदी, तस्याः अनुस्रोत:-प्रवाहः तस्य अनुगा:-अनुयायिनः के न भवन्ति ? अनेके इत्यर्थः । तत्र प्रतिस्रोतोऽनुगः-सन्मुखप्रवाहचारी तु एक एव महामुनि:शुद्धश्रमणः राजहंसः, नान्यः इति । तेन लोकरूढिरूढा बहवो जीवाः । निर्ग्रन्थस्तु रत्नत्रयसाधनोद्यतः स एव स्वरूपानुगामी । उक्तं च दशवैकालिके[96] अणुसोअपट्टिअ बहुजणंमि पडिसोअलद्धलक्खेणं ।
पडिसोअमेव अप्पा, दायव्वो होउ कामेणं ॥२॥ अणुसोअसुहो लोगो, पडिसोओ आसवो' सुविहिआणं । अणुसोओ संसारो, पडिसोओ तस्स उत्तारो ॥३॥
.. [चूलिका २, गा० २-३.] तेन मुनिर्लोकसंज्ञानुयायी न स्यात् ॥३॥ लोकमालम्ब्य कर्त्तव्यम्, कृतं बहुभिरेव चेत् । तदा मिथ्यादृशां धर्मो, न त्याज्यः स्यात्कदाचन ॥४॥
लोकमिति चेत्-यदि, यत् बहुभिः कृतं तत् कर्त्तव्यं लोकमालम्ब्य एवं क्रियते तदा मिथ्यादृशां धर्मः कदाचन-कदापि न त्याज्य: स्यात् । तच्च बहुभिः क्रियमाणत्वात् । रेस्वेच्छाचरणो लोकः बहुतरः । यतः- अनार्येभ्यः आर्याः स्तोकाः, आर्येभ्यः जैनाचाराः स्तोकाः जैनाचारवर्तिषु जैनपरिणतिपरिणताः स्तोकाः । अतो बहुलोकानुयायिना न भवनीयमिति ॥४॥
श्रेयोऽर्थिनो हि भूयांसो, लोके लोकोत्तरे न च । स्तोका हि रत्नवणिजः, स्तोकाश्च स्वात्मसाधकाः ॥५॥
श्रेयोऽर्थिनो हि भूयांस इति-लोके-बाह्यप्रवाहे श्रेयोऽर्थिन:धनस्वजनभुवनवनतनुकल्याणार्थिनः भूयांस:-प्रचुराः सन्ति । च-पुनः
१. आसमो V.1.2, S.M., B.1.2 । २. लोकमालम्ब्येति A.D । ३. म्लेच्छा० S.M. V.1.,A.D. | ४. लोकानुयायी-सर्वप्रतिषु । ५. च न v.1., A.D. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org