SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ श्रीज्ञानमञ्जरी पुनः आचाराङ्गे - [40] आयाणं सगडब्भि [ श्रुत०१, अ०३, उ०४, सू०७२] इत्यादि स्वतो योज्यम् । श्रेणिप्रतिपाताधिकारे आवश्यकनिर्युक्तौ १५४ [96] ★ उवसामं उवणीया, गुणमहया जिणचरित्तसरिसंपि । पडिवायंति कसाया, किं पुण सेसे सरागत्थे ॥११८॥ जइ उवसंतकसाओ, लहइ अनंतं पुणो वि पडिवायं । न हु भे वीससियव्वं, थोवे वि कसायसेसंमि ॥ ११९ ॥ अणथोवं वणथोवं, अग्गीथोवं कसायथोवं च । न हु भे वीससिअव्वं, थोवं पि हु तं बहू होइ ॥ १२०॥ दासत्तं देइ रिणं, अइरा मरणं वणो विसप्पंतो । सव्वस्स दाहमग्गी, दिति कसाया भवमणंता ॥१३११॥ [विशेषा० भा०गा. १३११] [97] इति कर्मोदयेन आत्मा दीनो भवति, इति ॥५॥ अर्वाक् सर्वापि सामग्री, श्रान्तैव परितिष्ठति । विपाकः कर्मणः कार्यपर्यन्तमनुधावति ॥ ६ ॥ अर्वाक् सर्वेति-सर्वापि सामग्री अर्वाक् श्रान्ता एव परितिष्ठति, नहि कार्यकरणसमर्था । कर्मणः विपाकः - उदयः कार्यपर्यन्तं चरमकारणम् अनुधावति - अनुप्रवर्त्तते । अतो बाह्यसामग्री उपकरणरूपा हि कर्मोदयाश्रिता, तेन कर्मोदयो बलवत्तरः, अतः कर्मक्षयाय यतितव्यमिति ||६|| असावचरमावर्त्ते धर्मं हरति पश्यतः । चरमावर्त्तिसाधोस्तु, च्छलमन्विष्य' हृष्यति ॥७॥ ? Jain Education International - असाविति - असौ - कर्मविपाकः पश्यतः २ - पश्यति सति पश्यन्नेव अचरमावर्त्ते चरमपुद्गलपरावर्त्तादर्वाक्, धर्मं हरति - चोरयति । तु-पुनः चरमावर्ति - चरमपुद्गलपरावर्त्तान्तर्वर्त्तमानमार्गानुसारिजनस्य साधोः ★ विशेषा०गा०१३०६ - ९-१० । १ मन्विष्यन् S. M. । २. सर्वप्रतिषु नास्ति । For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy