________________
१४८
श्रीज्ञानमञ्जरी श्लेषालङ्कारार्थं हि वाक्यपद्धतिः, न सत्या । मुनि:-तत्त्वज्ञानी अध्यात्मआत्मस्वरूपैकत्वतारूपे कैलाशे-आस्थाने, विवेकः-स्वपरविवेचनं स एव वृषभः-(बलीवर्दः), तत्र स्थितः, विरतिः- चारित्रकलाऽऽश्रवनिवृत्तिः, ज्ञप्तिः-ज्ञानकला शुद्धोपयोगता, ते एव गङ्गागौयौं, ताभ्यां युतः शिवः-निरुपद्रवः, उपचारात् शिवः रुद्रः भासते । रुद्रस्य गङ्गायुतत्वं विद्याधरत्वे पार्वतीमनोरञ्जनाय विक्रियाकाले वाच्यम् ॥५॥
ज्ञानदर्शनचन्द्रार्क-नेत्रस्य नरकच्छिदः । सुखसागरमग्नस्य, किं न्यूनं योगिनो हरेः ? ॥६॥
ज्ञानदर्शनेति-योगिनः-रत्नत्रयपरिणतस्य, हरे:-कृष्णात् किं न्यूनम्? न किमपि, किम्भूतस्य योगिनः ? ज्ञानदर्शनचन्द्रार्कनेत्रस्य-ज्ञानंसामान्यविशेषात्मके वस्तुनि विशेषावबोधः । सामान्यविशेषात्मके वस्तुनि सामान्यावबोधः दर्शनम् । तौ(ते) एव चन्द्रार्की नेत्रे यस्य स तस्य, हरेः चन्द्रार्कनेत्रत्वं तु लोकोक्तिरेव । पुनः किम्भूतस्य योगिनः?नरकच्छिदः नरकगतिनिवारकस्य, हरेस्तु-नरकाभिधानशत्रुविदारकस्य, सुखसागरमग्नस्य, कृष्णार्थे इन्द्रियजसुखलीलासमुद्रमग्नत्वम्, योगिनस्तु सुखं सम्यग्ज्ञानदर्शनचारित्रसमाधिनिष्पन्नं तस्य सागरः तत्र मग्नस्य, आध्यात्मिकसुखपरिणामभाजनस्य साधोः केन सह न्यूनता ? न केनापि इति ॥६॥
या सृष्टिब्रह्मणो बाह्या, बाह्यापेक्षावलम्बिनी । मुनेः परानपेक्षान्तर्गुणसृष्टिस्ततोऽधिका ॥७॥
या सृष्टिब्रह्मण इति-या सृष्टि:-रचना ब्रह्मणो-विधातुः सा बाह्या लोकोक्तिरूपा असत्या । पुनः बाह्या अपेक्षा तस्या अवलम्बनाअवलम्बिका । मुनेः-स्वरूपसाधनसिद्धिमग्नस्य अन्त:-मध्ये आत्मनि व्यापकरूपा गुणानां सृष्टिः-रचना गुणप्राग्भावप्रवृत्तिपरिणतिरूपा, बाह्यभावतः अधिका । कथंभूता गुणसृष्टिः ? परानपेक्षा-परेषाम् १. बाह्वी S.M. I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org