________________
सर्वसमृद्ध्यष्टकम् (२०)
१४५ उल्लापनरूपा जीवस्याजीवस्य, स्थापना समृद्धिः शक्तिरूपा, द्रव्यसमृद्धिः धनधान्यादिरूपा, शक्रचक्यादीनां लौकिका, लोकोत्तरा पुनः मुनीनां लब्धिसमृद्धिरूपा । [92] आमोसहि विप्पोसहि, खेलोसहि जल्लमोसही चेव ।
संभिन्नसोय उज्जुमई, सव्वोसहि चेव बोधव्वा ॥१९॥ चारणआसीविस केवली य मणनाणिणो य पुव्वधरा। अरिहंत 'चक्कधरा बलदेवा वासुदेवा य ॥७०॥
[आव० नि० ६९-७०] इत्यादिलब्धयः-ऋद्धयः । तत्र केवलज्ञानादिशक्तिर्लोकोत्तरा भावऋद्धिः । सं-सम्यक् प्रकारेण ऋद्धिः-समृद्धिः सर्वा चासौ समृद्धिश्च सर्वसमृद्धिः । अत्र साधनानवच्छिन्नात्मतत्त्वसम्पद्मग्नानां या तादात्म्यानुभवयोग्यो समृद्धिः, तस्याः अवसरः । नयाश्च प्रस्थकदृष्टान्तभावनया तत्कारणेषु, तद्योग्येषु, तदुद्यतेषु तपोयोगिषु आद्याः । तद्गुणेषु सापेक्षेषु-नैसर्गिकोत्सर्गरूपेषु३ अन्त्याः इति । अत्र प्रथमम् आत्मनि समृद्धिः पूर्णत्वं भासते तथा कथयति
बाह्यदृष्टिप्रचारेषु, मुद्रितेषु महात्मनः । अन्तरेवावभासन्ते, स्फुटाः सर्वाः समृद्धयः ॥१॥
बाह्यदृष्टिप्रचारेषु इति- महात्मनः-स्वरूपपररूपभेदज्ञानपूर्वकशुद्धात्मानुभवलीनाः (लीनस्य) सर्वसमृद्धयः स्फुटा:-प्रकटाः, अन्तरेवआत्मान्तः एव स्वरूपमध्ये एव (अव)भासन्ते । यतः स्वरूपानन्दमयोऽहम्, निर्मलाखण्डसर्वप्रकाशकज्ञानवानहम्, इन्द्रचन्द्रादिऋद्धयः
औपचारिकाः अक्षयानन्तपर्यायसम्पत्पात्रमहम्, स्वसत्ताज्ञानोपयुक्तस्य स्वात्मनि भासन्ते । कीदृशेषु सत्सु ? बाह्यदृष्टिप्रचारेषु मुद्रितेषु सत्सु । बाह्यदृष्टिः- विषयसञ्चारात्मिका तस्याः प्रचारा विस्ताराः तेषु मुद्रितेषु१. चक्कवट्टी V.1 । २. भवभोग्या V.1.A.D. | ३. V.1., A.D. प्रतौ अस्ति । ४. तत्र V.1., A.D. I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org