________________
तत्त्वष्टाष्टकम् (१९)
बाह्यदृष्टेः सुधासार-घटिता भाति सुन्दरी । तत्त्वदृष्टस्तु सा साक्षाद्, विण्मूत्रपिठरोदरा ॥४॥
बाह्यदृष्टेरिति-बाह्यदृष्टे:-संसाररक्तस्य, सुन्दरी-स्त्री सुधासारघटिता भाति-अमृतमयी इव भाति । तदर्थमर्जयन्ति धनम्, त्यजन्ति प्राणान्, मोहमत्ता मुञ्जादयोऽनेके । तु-पुनः, तत्त्वदृष्टेः- निर्मलानन्दात्मस्वरूपावलोकनदक्षस्य सा-सुन्दरी विण्मूत्रपिठरोदरा भाति विट्-विष्ठा मूत्रंप्रस्रवणं पिठरम्-अस्थि तेषाम् उदरा-भाजनरूपा भाति । उक्तं च
[86] रसासृग्मांसमेदोऽस्थि-मज्जाशुक्रान्त्रवर्चसाम् । अशुचीनां पदं कायः, शुचित्वं तस्य तत्कुतः ? ॥७२॥
[यो०शा० प्र० ४ श्लो० ७२] [37] वञ्चकत्वं नृशंसत्वम्, चञ्चलत्वं कुशीलता । इति नैसर्गिका दोषा, यासां तासु रमेत कः ? ॥८४॥ भवस्य बीजं नरक-द्वारमार्गस्य दीपिका । शुचां कन्दः कलेर्मूलम्', दुःखानां खानिरङ्गना ॥४७॥
[यो०शा० प्र० २ श्लो० ८४, ८७] *(अन्यशास्त्रेऽपिकान्ताकनकसूत्रेण, वेष्टितं सकलं जगत् । तासु तेषु विरक्तो यो, द्विभुजः परमेश्वरः ॥१॥) इत्यादि तत्त्वज्ञस्य नारी मोहहेतुत्वाद् भवबीजरूपा भाति ॥४॥ पुनः उपदिशतिलावण्यलहरीपुण्यम्, वपुः पश्यति बाह्यहम् । तत्त्वदृष्टिः श्वकाकानाम्, भक्ष्यं कृमिकुलाकुलम् ॥५॥
लावण्येति-बाह्यदृग्-लोकानुगतदृष्टिः, वपुः-शरीरं लावण्यलहरीपुण्यं-(सौन्दर्यलहरी)पवित्रं पश्यति । तत्त्वदृष्टिः-सम्यग्ज्ञानी तत्तु १. किम् - सर्वप्रतिषु, २. मूलां - सर्वप्रतिषु । * सर्वप्रतिषु नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org