________________
श्रीज्ञानमञ्जरी नाणाइणंतगुणोववेयं, अरुवमणहं च लोगपरिमाणं । कत्ता भोत्ता जीवं मन्नहु सिद्धाण तुल्लमिणं ॥१॥ श्रीपूज्यैश्च[84] जीवो गुणपडिवन्नो नयस्स दव्वट्ठियस्स सामइयं । सो चेव पज्जवट्ठियनयस्स जीवस्स एस गुणो ॥२६४३॥
[विशेषा०गा० २६४३] [85] तथा ठाणांगे 'एगे आया' [अ०१, सू०३] इत्यादि पाठात् सर्वत्र तुल्यत्वे आत्मनः सद्गुणप्राकट्ये क उत्कर्षः ? अशुद्धाः पर्याया औदयिकाः शक्रचक्रित्वादयः अपकृष्टत्वात् तुच्छत्वात् दोषत्वात् गुणघाततत्त्वज्ञानरमणोपघातकत्वात् शोफरोगपृष्टत्ववत् न उत्कर्षाय भवन्ति । किमेभिः पुद्गलोपचयरूपैः परोपाधिजैः संसर्गश्च ? मे कदा निवृत्तिः एभ्यः, इति संवेगनिर्वेदपरिणतानां नोन्माद इति ॥६॥
पुनः आत्मानमुपदिशतिक्षोभं गच्छन् समुद्रोऽपि, स्वोत्कर्षपवनेरितः । गुणौघान् बुबुदीकृत्य, विनाशयसि कि मुधा ॥७॥
क्षोभं गच्छन्निति-हे हंस ! स्वतत्त्वजलपूर्णस्वरूपमानसनिवासरसिकस्त्वं समुद्रोऽपि-मुद्रा-साधुलिङ्गरूपा तया युक्तोऽपि स्वोत्कर्षपवनेरितः-साहंकारपवनप्रेरितः, क्षोभं गच्छन्-अध्यवसायैः एवमेवं भवन्, गुणौघान्-अभ्यासोत्पन्नान् श्रुतधरव्रतधरलक्षणान् आमाँषधिरूपान् बुबुदीकृत्य मुधा-व्यर्थम्, किं विनाशयसि ? प्राप्तगुणगम्भीरो भव । स्वगुणाः स्वस्यैव हितहेतवः, तत्रः किं परदर्शनेन ? मानोपहताः गुणाः तुच्छीभवन्ति अतो न मानो विधेयः ॥७॥
निरपेक्षानवच्छिन्नानन्तचिन्मात्रमूर्तयः । योगिनो गलितोत्कर्षापकर्षानल्पकल्पनाः ॥८॥
॥ इति अनात्मशंसाष्टकम् ॥१८॥ १. पुष्टि० सर्वप्रतिषु । २. निवृत्तः B.2., V.2. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org