________________
१३४
श्रीज्ञानमञ्जरी उच्चत्वदृष्टिदोषोत्थ-स्वोत्कर्षज्वरशान्तिकम् । चरशान्तिकम् ।
... पूर्वपुरुषसिंहेभ्यो, भृशं नीचत्वभावनम् ॥४॥ ..
उच्चत्वदोषेति-अभ्यासात्प्राप्तज्ञानविनयतपोरूपगुणान्तर्ध्वलितमहामोहोदयेन आत्मनि उच्चत्वम् 'अहं गुणी, मया प्राप्तमिदं ज्ञानम्, १विनयगुणवानहमिति', उच्चत्वदृष्टिदोषेण उत्थो यः स्वोत्कर्षः स एव ज्वरः तस्य शान्तिकमुपशमकारणं पूर्वपुरुषा:-अर्हदादयः ते एव सिंहाः तेभ्यः आत्मन्यूनत्वभावनं मानोदयतापनिर्वापणं ज्ञेयम् ।
धन्नो धन्नो वयरो, सालिभद्दो य थूलभद्दो अ। जेहिं विसयकसाया, चत्ता रत्ता गुणे नियए ॥१॥
धन्याः पूर्वपुरुषाः ये वान्तावा अनादिभुक्तपरभावास्वादनरामणीयकं त्यजन्ति, सदुपदेशज्ञातासत्तासुखेप्सया आत्मधर्मश्रवणसुखमनुभूयमानाः चक्रिसम्पदा विपद इव मन्यन्ते, रमन्ते स्वगुणेषु । धन्यः स्थूलभद्रः यो हत्यातुररक्तकोश्याप्रार्थनाऽकम्पितपरिणामः, अहं तु निरर्थककुविकल्पैः चिन्तयामि विषयविषोपायान् । उक्तं च[81] संते वि कोवि उज्झइ, कोवि असंते वि अहिलसइ भोए । चयइ परपच्चयेण वि, पभवो दुटुं जहा जम्बू ॥३७॥
[उप०मा० गा०३७] इत्यादिभावनया स्वदोषचिन्तनेन आत्मोत्कर्षपरिणामो निवार्यः
॥४॥
शरीररूपलावण्य-ग्रामारामधनादिभिः । । - उत्कर्षः परपर्यायै-श्चिदानन्दघनस्य कः ॥५॥ ६. शरीरेति-चिदानन्दघनस्य चिद्-ज्ञानम्, आनन्दः-सुखम्. ताभ्यां घनस्य आत्मनः परपर्यायैः-संयोगसम्भवैः पुद्गल सन्निकर्षोद्भवैः, क १. ज्ञानादि V.1, A.D. । २. ज्ञातसत्ता A.D., ज्ञानसत्ता V.1. । ३. विकल्पतल्पे V.1, A.D. I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org