________________
१२४
श्रीज्ञानमञ्जरी मनः स्याद्व्यापृतं यावत्, परदोषगुणग्रहे । कार्यं व्यग्रं वरं तावन्मध्यस्थेनाऽऽत्मभावने ॥५॥
मनः स्याद् व्यापृतमिति-परदोषगुणग्रहणे यावद् मनः व्यापृतंव्यापारवत् स्यात् तावत् आत्मभावने-आत्मस्वरूपचिन्तने व्यग्रं-तदायत्तं वरं-प्रधान कार्यम् । केन ? मध्यस्थेन पुरुषेण समभावास्वादनरसिकेन । इत्यनेनात्मस्वरूपस्यामूर्तस्यागुरुलघुषड्गुणहानिवृद्धिपरिणमनोत्पादव्यय-ध्रौव्यतालक्षणस्वरूपचिन्तनगुणप्रवृत्तिः गुणान्तरसहकारप्रवृत्तिस्वरूपचिन्तनादिकं तत्र चिन्तने व्यग्रस्य सांसारिकगुणदोषचिन्तनावकाश एव न भवति । अत एव निर्ग्रन्थाश्चिन्तयन्ति भावनाचक्रम्, घोषयन्ति द्रव्यानुयोगग्रन्थम्, प्रश्रयन्ति 'परस्परस्वभावविभावपरिणामम्, विलोकयन्ति आत्मस्वरूपं साऽऽवरणं निरावरणम्, विभजयन्ति हेतुगणपरिणामम्, त्यजन्ति अशुद्धनिमित्तानि, विचारयन्ति निक्षेपाक्षेपम्, संमीलयन्ति नयाऽनुयोगम्, तन्मयीभवन्ति ध्यानादिषु, यतोऽनादिविभावानुगतचेतनावीर्यप्रवर्त्तनगृहीतपरस्वरूपोपादेयतया परदोषगुणावलोकनाशुद्धचिन्तननिवारणार्थं मनः स्याद्वादानन्तपञ्चास्तिकायस्वरूपावलोकनाजीवहेयजीवोपादेयज्ञानं कार्यमिति ॥५॥
विभिन्ना अपि पन्थानः, समुद्रं सरितामिव । मध्यस्थानां परं ब्रह्म, प्राप्नुवन्त्येकमक्षयम् ॥६॥
विभिन्ना अपि इति-विभिन्ना-अनेकभेदभिन्ना अपि पन्थान:पञ्चध्यानमार्गसाधनपद्धतयः साधनाः अनेके द्रव्याचरणतः शुक्लध्यानं यावत् सम्यग्दृष्टि-अपुनर्बन्धकादयः, जिनकल्पाः स्थविरकल्पादयः
सन्ति तथापि मध्यस्थानां मध्यस्थभावर्तिनामेकमक्षयं परं ब्रह्म प्राप्नुवन्ति । इत्यनेन सर्वे साधनोपायाः एकं शुद्धमात्मस्वरूपं समवतरन्ति । सर्वेषां मोक्षसाधकानां साध्यैकत्वात्, कमिव ? समुद्रं सरितामिव, यथा नद्यः समुद्रं गच्छन्ति, एवं तत्त्वैकत्वपरिणामानां सर्वं १. परस्परम् A.D.,V.11 २. एष पाठो नास्ति । B.1.2.,A.D,V.2., S.M. I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org