________________
माध्यस्थाष्टकम् (१६)
१२१ नामादिषु प्रतिविशिष्टवर्तमानपर्यायापन्नेष्वपि प्रसिद्धो वाचकतया यः शब्दः, तस्मात् शब्दाद् भावाभिधायिनः तद्वाच्येऽर्थे भावरूपे प्रवृत्तोऽध्यवसायः साम्प्रताख्यामासादयति । यतो भाव एव शब्दाभिधेयो भवति, तेनाशेषाभिलषितकार्यकारणादिति ।
अथाऽधुना समभिरूढलक्षणं दर्शयन्नाह-विद्यमानेषुवर्तमानपर्यायापन्नेषु अर्थेषु-घटादिषु, असंक्रमः- इत्यन्यत्राऽगमनम्, शब्दस्य यत् सोऽसंक्रमः, यथा घट इत्यस्य शब्दस्य विद्यमानं घट चेष्टात्मकं विरहय्य न अन्यत्र कुटाद्यर्थेऽभिधानसामर्थ्यमस्ति अभिधेयत्वात् । यदि चास्य शब्दस्य कुटादिरर्थोऽभिधेयो भवेदेवं सति यथोक्तसर्वसंकरत्वादयो दोषा उपजायेरन् । नित्यतो न शब्दान्तराभिधेयोऽर्थोऽन्यस्य शब्दस्याभिधेयो भवति एवमसंक्रमणगवेषणपरोऽध्यवसायः समभिरूढः ।
एवंभूतस्वरूपमाह- व्यञ्जनं शब्दस्तस्यार्थोऽभिधेयो वाच्यं तयोर्व्यञ्जनार्थयोरेव सङ्घटनं करोति, घट इति यदिदम् अभिधानम्, तच्चेष्टाप्रवृत्तस्यैव । जलधारणाहरणसमर्थस्य वाचकं चेष्टां च जलाद्यानयनरूपां कुर्वाणो घटो मतः, न पुनः क्रियातो निवृत्तः । इत्थं यथार्थतां प्रतिपद्यमानोऽध्यवसायः एवंभूतोऽभिधीयते । ननु नया इति कः पदार्थः? "नयन्ते(नीयन्ते) प्रदर्श्यन्ते इति नयाः" सामान्यादिरूपेणार्थं प्रकाशयन्ति स्वार्थप्रापणेन प्रापकाः, कुर्वन्ति तत्तद्विज्ञानमात्मन इति कारकाः, अपूर्वं साधयन्ति-शोभनामन्योन्यव्यावृत्त्यात्मिकां विज्ञप्ति जनयन्ति अतः साधकाः, एवं निर्वतकोपलम्भकादिपर्यायाः तत्त्वार्थतः ज्ञेयाः । अत्र कर्तृ-क्रिययोः अभेदोऽस्ति, यतः स एव पदार्थः कर्ता इत्येवं व्यपदिश्यते स्वतन्त्रत्वात् । तथा स एव च साध्यात्मना वर्तमानक्रिया इत्याख्यायते, अतोऽनयो त्यन्तिको भेदः । ___अथैते नयाः तन्त्रान्तरीयाः मतान्तरीयाः अथ च स्वतन्त्राः सप्त वा जिनवचनविभजनशीलाः (चोदक-) पक्षग्राहिणः मतिभेदा वा । एवं सर्वत्र मिथ्यात्वादपि प्रतिपत्तिं प्राप्नोति तेन पुनः सूरिराह-इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org