SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ विवेकाष्टकम् (१५ ) १०९ दण्डादि निमित्तम्, तथा आत्मा कर्ता, ज्ञानादि कार्यम् । तत्र स्वसत्तापरिणतिः उपादानम् । स्वरूपसिद्धौ शुद्धपारिणामिककार्ये निमित्ताभावः इति । कर्मक्षपणशुद्धात्मप्राग्भावलक्षणे साधनकार्येऽप्यात्मा कर्ता, च तत्त्वसिद्धिः कार्यम्, आत्मगुणा ज्ञानदर्शनचारित्रवीर्यरूपाः स्वधर्मसाधनावलम्बिनः कारणमुपादानम्, निर्विकारवीतरागवाक्यादयः निमित्तमिति । [69] कम्मं किरियाकारणमिह निच्चिट्टो जओ न साहे । अहवा कम्मं कुम्भो, स कारणं बुद्धिहेउ ति ॥२११३ ॥ भव्वो त्ति व जोग्गो त्ति व, सक्को त्ति व सो सरूवलाभस्स । कारणसंनिज्झमि वि, जं नागासत्थमारंभी ॥ २११४ ॥ बज्झनिमित्तावेक्खं, कज्जं वि य कज्जमाणकालम्मि । होइ सकारणमिहरा, विवज्जयाऽभावया होज्जा ॥२११५ ॥ [विशेषा० गा० २११३-१४-१५] क्रियते कर्त्रा निर्वर्त्यते इति व्युत्पत्तेः कर्म भण्यते । कासौ क्रिया ? कुम्भं प्रति कर्तृव्यापाररूपा, सा च कुम्भलक्षणकार्यस्य कारणमिति प्रतीतमेव । आह- ननु कुलाल एव कुम्भं कुर्वन्नुपलभ्यते, क्रिया तु न काचित् कुम्भकरणे व्याप्रियमाणा दृश्यते । इत्याह- इह निश्चेष्टः कुलालोऽपि यस्मान्न (घटं ) साधयति-निष्पादयति, या च तस्य चेष्टा सा क्रिया इति कथं न तस्याः कुम्भकारणत्वमिति । अथवा कर्तुः ईप्सिततमत्वात् क्रियमाणः कुम्भ एव कर्म, तर्हि कार्यमेवेदमतः कथमस्य कारणत्वं ? नहि सुतीक्ष्णमपि सूच्यग्रमात्मानमेव विध्यति । ततः कार्यं निर्वर्त्यस्यात्मन एव कारणमित्यनुपपन्नमेवेत्याह- स कारणं ( बुद्धिहेउ त्ति ) स कुम्भः कारणं हेतुः कुम्भस्य । कुत: ? प्रस्तावात् - कुम्भबुद्धिहेतुत्वात् । इदमुक्तं भवति - सर्वोऽपि बुद्धौ सङ्कल्प्य कुम्भादिकार्यं करोति, इति व्यवहारः, ततो बुद्ध्यध्यवसितस्य कुम्भस्य चिकीर्षतो मृन्मयकुम्भः तद् बुद्धयालम्बनतया कारणं भवत्येव । न च वक्तव्यम१. करण० V. 1. । Jain Education International - For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy