SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ विवेकाष्टकम् (१५) १०७ इच्छन्न परमान् भावान्, विवेकाद्रेः पतत्यधः । परमं भावमन्विच्छन्नाविवेके निमज्जति ॥६॥ इच्छन्न परमानिति-परमान् भावान् परमभावग्राहकनयेन संमतशुद्धचैतन्यानुगसर्वधर्मपरिणमनेन परमान्-उत्सर्गशुद्धनयोपदिष्टान् नित्यानित्याद्यनन्तान् 'न इच्छन्-ने वाञ्छन् विवेकाद्रेः-तत्त्वज्ञान-तत्त्वरमणगिरेः शृङ्गाद् अध: पतति-विवेकरहितो भवति, परमं-शुद्धं तादात्म्यतागतं सर्वविशुद्धात्मस्वभावं स्याद्वादोपयोगेन अन्विच्छन् गवेषयन् शुद्धचैतन्यमुपादेयतया कुर्वन् अविवेके-अज्ञाने असंयमे न निमज्जति-न मग्नो भवति । आत्मस्वरूपैकत्वानुभवकरणप्रवृत्तः परभावचूरणचक्रवर्ती एव इति समस्तपरभावोन्मादमन्थनपटुशुद्धात्मज्ञान-श्रद्धान-रमणानुभवने यतितव्यम्, नार्वाचीनपरिणतौ, अत एवापूर्वकरणप्रविष्टमुनिरनेकढिलाभे न सङ्गतिमङ्गति । अपूर्वकरणं च सर्वाभिनवगुणप्राप्तौ भवत्येव । [67] सम्मदरसव्वविरई, अणविसंजोयदंसखवगे य । मोहसमसंतखवगे खीणसजोगीयर गुणसेढी ॥८२॥ [शतककर्म० गा० ८२] एवमेकादशगुणश्रेणिषु प्रथमगुणश्रेणौ करणत्रयं शेषासु दशसङ्ख्यासु अपूर्वकरणानिवृत्तिरूपं करणद्वयं करोत्येव । एवमपूर्वापूर्वकरणारोहणेन कर्मपटलविगमो भवति । उक्तं च[68]सातद्धिरसेष्वगुरुः, संप्राप्य विभूतिमसुलभामन्यैः । सक्तः प्रशमरतिसुखे, न भजति तस्यां मुनिः सङ्गम् ॥२५६॥ या सर्वसुरवरद्धिविस्मयनीयाऽपि सानगारद्धैः । नार्धति सहस्त्रभागम्, कोटिशतसहस्त्रगुणितमपि ॥२५७॥ - [प्रशमरतिः गा० २५६-५७] १-२. सर्वप्रतिषु नास्ति । ३. अथात्म० B.1.2.,V.2.,S.M. 1 ४. ज्ञानरमणा० A.D.,V.1. विना। ". Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy