________________
९०
आत्मात्मन्येव यच्छुद्धम्, जानात्यात्मानमात्मना । सेयं रत्नत्रये ज्ञप्ति - रुच्याचारैकता मुनेः ॥२॥
आत्मा इति - अत्र ज्ञानादिगुणानामभेदकरणभूतानां ज्ञायकत्वकार्यकर्ता आत्मा एव । अत्रोपादानस्वरूपे षट्कारकचक्रमय एव आत्मा स्वयमेव कर्ता कार्यरूपोऽपि कारणरूपसम्प्रदानापादानाधिकरणं स्वयमेवेति व्याख्यातं भाष्ये श्रीजिनभद्रक्षमाश्रमणैः । अत एव आत्मा जीवः कर्तारूप:, आत्मना आत्मीयज्ञानवीर्येण करणभूतेन, आत्मानमनन्तास्तित्व- वस्तुत्व - द्रव्यत्व-सत्त्व - प्रमेयत्व- सिद्धत्व-धर्मकदम्बकोपेतं कार्यत्वापन्नमात्मनि आधारभूते अस्तित्वाद्यनन्तधर्मपर्यायपात्रभूते जानाति । सा इयं जानातिरूपा प्रवृत्तिः सा एव रत्नत्रये सम्यग्दर्शनज्ञान - चारित्रलक्षणे ज्ञप्तिः रुचिः आचार: - भासननिर्द्धाराचाररूपः, एतेषामेकता - अभेदपरिणतिः मुनेः अस्ति इत्यनेन आत्मना आत्मानं ज्ञात्वा तद्रुचिः तदाचरणं मुनेः स्वरूपम् । भावना च मिथ्यात्वाज्ञानासंयमैकत्वेन पौद्गलिकसुखं सुखत्वेन निर्धार्य ज्ञात्वा च तदाचरणप्रवृत्तस्यानन्तकालं तत्त्वानवबोधेन दाघज्वरपरिगत' इव मृत्तिकालेप इवावगुण्ठितः कर्मपुद्गलैः न चोपलब्धः तत्त्वश्रद्धान-ज्ञानरमणानुभवलवोऽपि । तेनैव निसर्गाधिगमादिकारणेन अनादिनिधनोऽयं जीवोऽनन्तज्ञानादिपर्यायालिप्तामूर्त्तस्वभावोऽवगतः निर्द्धारितश्च साध्योऽहं साधकोऽहं सिद्धोऽहं ज्ञानदर्शनानन्दाद्यनन्तगुणमयोऽहमिति ज्ञप्ति - रुचिआचरणरूपं मुनिस्वरूपम् । उक्तं च
[50] आत्मानमात्मना वेत्ति, मोहत्यागाद् यदात्मनि । तदेव तस्य चारित्रम्, तद् ज्ञानं तच्च दर्शनम् ॥१॥ [ योगशा० प्र० ४, श्लो० २]
१. गता B. 1.2. V.1.2. L.D. 1. S.M. I
श्रीज्ञानमञ्जरी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org