SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ निर्लेपाष्टकम् ( ११ ) ८३ [47] ★ जई जिणमयं पवज्जह, ता मा ववहारनिच्छए मुयह । इक्केण विणा तित्थं, छिज्जई अन्नेण उ तच्चं ॥१॥ अतः साधनोद्यताः सर्वमपि स्वस्थाने स्थापयन्ति ||७|| सज्ञानं यदनुष्ठानम्, न लिप्तं दोषपङ्कतः । शुद्धबुद्धस्वभावाय, तस्मै भगवते नमः ॥८॥ ॥ इति निर्लेपाष्टकम् ॥ ११ ॥ सज्ञानमिति - यदनुष्ठानं - यदाचरणम्, सज्ञानं सम्यग्ज्ञानयुक्तम्, दोषाः - इहलोकाशंसापरलोकाशंसाक्रोधमानादयः तैः न लिप्तंनाश्लेषितम्, तस्मै भगवते पूज्याय नमः । किंभूताय भगवते ? शुद्धबुद्धस्वभावाय, शुद्धः सर्वपुद्गलाश्लेषरहितः, बुद्ध:- ज्ञानमयः स्वभावो यस्य सः तस्मै इत्यनेन यथा सत्ता तथा, निष्पन्नः निरावरणः सिद्धस्वभावः, तस्य साधका ज्ञानक्रिया सावधाना । तत्र भावना अनादिघोषणाघोषित परभावात्मबुद्धिरूपाऽसद्ज्ञानपरभावास्वादनसंमिलितविभावाऽभ्रपटलतिरोभूततत्त्वज्ञान भानुबहुलीभूतमिथ्यात्वासंयममहामोहतिमिरान्धीभूतभूतानां मध्ये केचन सदागमाञ्जनतत्त्वप्रीतपानीयपानोत्पन्नसद्विवेकाः पश्यन्ति । ज्ञानावरणादिकर्मच्छादितविभावमलतन्मयीभूतशरीरादिपुद्गलस्कन्धैकताप्राप्तोऽपि मूर्त्तभावोऽपि छिन्नोऽपि अमूर्त्ताखण्डज्ञानानन्दानन्ताव्याबाधस्वरूपमात्मानं भुज्यमानविषया अपि रोचयन्ति स्वतत्त्वानुभवनम् नानोपायार्जितमपि त्यजन्ति धनौषधं विचित्रचित्रतोद्भूतम्, वर्जयन्ति स्वजनवर्गम्, कोटिदानदायका अपि चरन्ति गोचरीम्, मृदुनवनीतकुसुमशय्याशायिनोऽपि शेरते घातोपलशिलाभूमौ एकात्मतत्त्वसहजस्वभावामूर्त्तानन्दलीलालुब्धा ज्ञानक्रियाभ्यासतः साधयन्ति निरावरणात्यन्तिकैकान्तिक- निर्द्वन्द्व-निरामयाविनाशि सिद्धस्वरूपमेतत्साधनोद्यताय भगवते नमः ||८|| ॥ इति व्याख्यातं निर्लेपाष्टकमेकादशमम् ॥ ११ ॥ 'पञ्चवस्तुकप्र० गा० १७२, उप०मा० गा० २२८, आगमसारः गा० ८, संग्रहशतकम् गा०२२ । १. धनौघं A. D. V.1.2 । " Jain Education International -- For Private & Personal Use Only 2 -- www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy