SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ श्रीज्ञानमञ्जरी लिप्तताज्ञानसंपात-प्रतिघाताय केवलम् । निर्लेपज्ञानमग्नस्य, क्रिया सर्वोपयुज्यते ॥४॥ लिप्तता इति-निर्लेपज्ञानमग्नस्य-शुद्धस्याद्वादात्मज्ञानमग्नस्य पुंसः क्रिया-आवश्यककरणरूपा, लिप्तताज्ञानसंपातप्रतिघाताय-लिप्तताज्ञानविभावचेतनोपयोगः, तत्र सम्पात:-पतनं तस्य प्रतिघाताय-'निवारणाय केवलमुपयुज्यते-उपकारीभवति, इत्यनेन ध्यानारूढस्य न क्रियाकरणम्, किन्तु भावनाचिन्ताज्ञानवतो विघ्नवारणाय क्रिया उपकारिणी । ध्यानाधिरूढस्याप्रच्युतात्मस्वभावानुभवस्थस्य विधातनी । आगमेऽपिपूर्वं यदमृतकुम्भोपमं तदेवोपरि विषकुम्भोपमम् । उक्तं च - जा किरिया सुट्टयरी सा विसुद्धीए न अप्पधम्मोत्ति । पुवि हिया पच्छा अहिया जह निस्सिहाइतिगं ॥१॥ अत एव आत्मस्वरूपावबोधैकत्वं हितम् ॥४॥ तपःश्रुतादिना मत्तः, क्रियावानपि लिप्यते । भावनाज्ञानसंपन्नो, निष्क्रियोऽपि न लिप्यते ॥५॥ तपःश्रुतादिना इति-क्रियावान् अपि जिनकल्पादितुल्यक्रियाभ्यासी अपि तपःश्रुतादिना मत्तः-मानी अभिनवकर्मग्रहणैर्लिप्यते । न च रुषादयोत्कृष्टा क्रिया हितकारिणी । उक्तम्-आचाराङ्गे:-[40]"से वंता कोहं च माणं च मायं च लोभं च एयं पासगस्स दंसणं उवरयसत्थस्स पलियंतकरस्स आयाणं सगडब्मि ।।सू०१२१।।इति । [आचा० श्रुत०१, अ० ३, उ०४, सू० १२१] पुनः [41] (जे ममाइयमई जहाइ से चयइ ममाइयं, से हु ट्ठिपहे मुणी जस्स नत्थि ममाइयं, तं परिण्णाय मेहावी विइत्ता लोगं) वंता लोगसन्नं से मइमं परिक्कमेज्जासि त्ति बेमि।।।सू०९८॥ [आचा० श्रुत०१, अ०२, उ० ६, सू० ९८] १. निरावरणाय S.M., V.2., B.2.। २. भावज्ञानं च संपन्नो V.2., B.2. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy