________________
७४
श्रीज्ञानमञ्जरी
तवइ तवं चरइ चरणं, सुअंपि नवपुव्व जाव अब्भसइ । जा परसुहे सुहत्तं, ता नो सम्मत्तविन्नाणं ॥ १ ॥ पुनः श्रीहरिभद्रपूज्यै:
न
सुअवं सीलवं चाई, जिणमग्गायरणारई । परं वा परसंगं वा, धम्मं मन्नड़ जो जडो ॥ २ ॥ यच्च आत्मनः स्वरूपं सहजं 'ज्ञानादि, तदेव धर्म इति तत्त्वम् ॥५॥ मधुराज्यमहाशाका ग्राह्ये बाह्ये च गोरसात् । परब्रह्मणि तृप्तिर्या, जनास्तां जानतेऽपि न ॥६॥ मधुराज्येति - या परब्रह्मणि - शुद्धात्मनि- अमूर्त्तानन्तज्ञानघने, या तृप्ति: स्वरूपा - समतालिङ्गनानन्दचिद्विलासरूपा, जनाः- तत्त्वावलोकननयनविकलाः, तां शुद्धात्यन्तैकान्ताध्यात्मस्वभावानुभवरूपां तृप्ति जानतेऽपि न - नैव ज्ञायते इति ज्ञानग्रहणेऽपि नास्ति । अतः कुतोऽनुभवः ? या तृप्तिः मधुराज्यमहाशाकाग्राह्ये पुनः गोरसात् अबाह्ये भोजने न, मधुरमाज्यं - मधुराज्यम्, महान्तः शाका: - व्यञ्जनानि तैर्ग्राह्ये पुनः गोरस:- दध्यादि तस्मात् अबाह्ये, युक्ते एवंविधे भोजने सा तृप्तिः न । अथवा कथंभूते ब्रह्मणि ? मधुराज्यमहाशाकाग्राह्ये-मधु-मिष्टं राज्यम्, तत्र महती आशा-इच्छा येषां ते मधुराज्यमहाशाकाः तैः परिग्रहैश्वर्याभिलाषुकैः, अग्राह्ये- ग्रहीतुमशक्ये गोरसात् - वाग्रसात्, बाह्ये वाचामगोचरे 'अप्राप्य मनसा सह' इति वेदोक्तत्वात् [38] 'अपयस्स पर्य नत्थि' इत्याचाराङ्गवचनात् । [आचा०श्रुत०१, अ०५, उ०६, सू० १७०] एवंविधे परब्रह्मणि - परमात्मनि या तृप्तिः सा लोकैर्न ज्ञायते एव, अतः पुद्गलोपचारसहस्त्रैः सा तृप्तिर्न भवति ||६||
विषयोर्मिविषोद्गारः, स्यादतृप्तस्य पुद्गलैः । ज्ञानतृप्तस्य तु ध्यान- सुधोद्गारपरम्परा ॥७॥
विषयोमि इति - अतृप्तस्य स्वरूपास्वादरहितस्य, पुद्गलैः
१. ज्ञानादिकम् L.D.1 1
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org