SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ क्रियाष्टकम् (९) ६७ गुणारोहणादिकं सर्वं ग्राह्यम् । च पुनः नित्यस्मृतिः पूर्वगृहीतव्रतस्मरणम्, अभिनवप्रत्याख्यान-सामायिक-चतुर्विंशतिस्तव-गुरुवन्दनप्रतिक्रमण-कायोत्सर्ग-प्रत्याख्यानादीनां नित्यस्मृत्या सत्क्रिया भवति । अत्र गाथा श्रीहरिभद्रपूज्यैः विंशतिकायाम्[32] *तम्हा णिच्चसइए बहुमाणेणं च अहिगयगुणिमि । पडिवक्खदुगंछाए, परिणइआलोयणेणं च ॥३६॥ तित्थंकरभत्तीए, सुसाहुजणपज्जुवासणाए य । उत्तरगुणसद्धाए, इत्थ सया होइ जइयव्वं ॥३७॥ एवमसंतो वि, इमो जायइ जाओवि न पडइ कयाइ । ता एत्थं बुद्धिमया, अपमाओ होइ कायव्वो ॥३८॥ [पञ्चा०प्र० पञ्चा० १ गा० ३६-३७-३८] [33] सुहपरिणामो निच्चं, चउसरणगमाइ आयरं जीवो । कुसलपयडीउ बंधइ, बद्धाओ सुहाणुबंधाओ ॥५९॥ . . [चउसरणप्रयन्नो गा० ५९] इत्यादिक्रियाजातमुत्पन्नं भावं सम्यग्ज्ञानादिसंवेगनिर्वेदलक्षणं न पातयेत्। अपि च न जातं धर्मध्यानशुक्लध्यानादिकं भावमजातमपि-अनुत्पन्नमपि जनयेत्-निष्पादयेत् । श्रेणिक-कृष्णादीनां गुणिबहुमानेन, मृगावत्याः पश्चात्तापेन, आलोचनेन अतिमुक्तनिर्ग्रन्थस्य, गुरुभक्त्या चण्डरुद्रशिष्यस्य, इत्याद्यनेकवाचंयमानां परमानन्दनिष्पत्तिः श्रूयते आगमे ॥५॥ क्षायोपशमिके भावे, या क्रिया क्रियते तया । पतितस्यापि तद्भाव-प्रवृद्धिर्जायते पुनः ॥६॥ क्षायोपशमिके इति–चारित्रानुगवीर्यक्षयोपशमे जाते या क्रिया वन्दननमनादिका क्रियते तया क्रियया पतितस्यापि-गुणपराङ्मुखस्यापि जीवस्य ★ श्रावकप्रज्ञप्तिः गा० १०४-५-९, श्रावकधर्मविशिका गा० ८-९-१०, श्रावकधर्मविधिः गा० १०६-१०७-१०८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy