SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ त्यागाष्टकम् (८) [29] *नाणस्स होई भागी, थिरयरो दंसणे चरित्ते अ । धन्ना आवकहाए, गुरुकुलवासं न मुंचंति ॥१॥ [बृ०क०भा० गा० ५७१३] अत एव परित्यज्य चक्रवर्तित्वम् इभ्यश्रेष्ठित्वम्, ग्रहन्ति श्रमणत्वम्, सेवन्ते गुरुचरणारविन्दान् तत्त्वजिज्ञासापटवः ॥५॥ ज्ञानाचारादयोऽपीष्टाः, शुद्धस्वस्वपदावधि । निर्विकल्पे पुनस्त्यागे, न विकल्पो न वा क्रिया ॥ ६ ॥ ज्ञानाचारा० इति-ज्ञानाचारादयः कालविनयादि-निःशङ्कादिसमितिगुप्त्यादयः आचाराः, आचर्यन्ते गुणवृद्धये ते आचाराः । शुद्धस्वस्वपदावधि-शुद्धः स्व इति स्वकः तस्य पदस्य अवधिः मर्यादा तावद् इष्टाः, शुभोपयोगदशायां सविकल्पतां यावद् आचाराः इष्टाः वल्लभाः, यदा निर्विकल्पे चिन्तनारहिते त्यागे विकल्पः न । इदं त्याज्यम् इदं ग्राह्यमिति विकल्परहिते त्यागे निष्प्रयासस्वरूपैकत्वरूपे विकल्पचिन्तना न, क्रिया बलवीर्यादिरूपापि न, तत्र स्वरूपावलम्बिगुणवर्त्तने वीर्यस्य स्वक्षेत्रावगाढत्वेन न चलनता परभावग्रहणे तु परग्राहकत्वेनोन्मुखवीर्यप्रवृत्तौ कार्याभ्यासतः विषमीकृतवीर्यत्वेन चलनारूपा क्रियाऽस्ति । अतः स्वरूपमग्नानां स्वस्वप्रदेशव्याप्तगुणानां तत्प्रदेशगतवीर्यसहकारवृत्त्या प्रदेशान्तरागमनरूपा वीर्यचलनक्रिया न । क्रिया द्विधा, बाधका साधका चैव । तत्र मिथ्यात्वासंयमकषायप्रेरितचेतनापरिणामाः पराभिलाषकत्वेन परग्रहणाय प्रेरयन्ति वीर्यं सा अभ्यन्तरा, कुदेवसेवनादिरूपा बाह्यक्रिया बन्धहेतुत्वेन बाधका भण्यते । या तु शुद्धदेवगुरुसेवनाश्रवनिरोधसंवरपरिणमनरूपा कर्मबन्धरोधरूपा साधका उक्ता । निर्विकल्पे ध्यानसमाधौ बाधकक्रिया भावसाधकबाह्य ★ पञ्चा० ११११६, पञ्चव० गा० १३५८, उपदे०प०प्र० गा० ६८२, निशीथभा० गा० ५४५७, विशेषाव० गा० ३४५९ उप०मा० गा० ३४१, यतिल०समु०गा० १३९, विधिप्र० २७।१४ । १. प्रवर्तने A.D. V.1. | २. आभ्यन्तरा A.D. V.1. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy