SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ५२ श्रीज्ञानमञ्जरी [25] सल्लं कामा विसं कामा, कामा आसीविसोपमा । कामे पत्थेमाणा, अकामा जंति दुग्गइं ॥ ५३ ॥ [ उत्तरा० अ० ९ गा० ५३] [27] विसयविसं हालाहलं विसयविसं उक्कडं पी(पि)यंताणं । विसयविसयाइन्नं पिव, विसयविसविसूइया होई ॥२९३॥ [ उप०मा० गा० २१३] कामभोगग्रहो दुष्टः, कालकूटविषोपमः । तद्व्यामोहनिवृत्त्यर्थमात्मभावोऽमृतोपमः ॥३॥ अतः आत्मानुभवने तृप्तिं कुरु ॥३॥ आत्मानं विषयैः पाशैः, भववासपराङ्मुखम् । इन्द्रियाणि निबध्नन्ति, मोहराजस्य किंकराः ॥४॥ आत्मानमिति—भव:-संसारः, तस्य वासो - निवासः तत्र पराङ्मुख:- निवृत्तः उद्विग्नः, तमात्मानमिन्द्रियाणि निबध्नन्ति, भववासदृढं कुर्वन्ति, कै: ? विषयपाशैः - विषया एव पाशाः तैः, एते मोहराजस्य किंकरा :- परिवारभूताः, उपमितौ मोहसुतः जगद्व्यामोहकृत् रागकेशरी तत्प्रधानो विषयाभिलाषः इति भवमूलविषयपरित्यागो हिताय ॥४॥ गिरिमृत्स्नां धनं पश्यन्, धावतीन्द्रियमोहितः । अनादिनिधनं ज्ञानम् धनं पार्श्वे न पश्यति ॥५॥ गिरिमृत्स्नामिति - मूढः गिरिमृत्स्नां - भूधरमृत्तिकां स्वर्णादिकां धनं पश्यन्, इन्द्रियमोहितः - विषयासक्तः धावति - इतस्ततः परिभ्रमति, ज्ञानं धनं पार्श्वे - समीपे न पश्यति, तदात्मा स्वलक्षणभूतं तत्त्वावबोधरूपं ज्ञानं धनं न पश्यति - नावलोकयति, कथंभूतं ज्ञानं ? अनादिनिधनमनादि-आदिरहितं सत्तया, अनिधनमन्तरहितं सत्ताविश्रान्तिरूपम् । उक्तं च १. कालकूटो B. 1.2., V.1.2.. A.D. । २. उपमिता: मोहसुता: S.M. 1 ३. पार्श्वे ज्ञानं धनं A.D., पार्श्वे धनं ज्ञानं S. M. । ४. तदात्म्या० B.1., V.2 । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy