________________
४४
श्रीज्ञानमञ्जरी समतायोगी उक्तः ४ तथा योगाधीनकर्मोदयाधीनानादिवृत्तिः जीवस्य तस्याः क्षयः-अभावः स्वरूपवृत्तिः वृत्तिक्षययोगी उच्यते ५ एवं पञ्चयोगेषु समतायोगी साधने पटिष्ठ इति ज्ञानस्य पूर्णावस्था शमः ॥१॥
अनिच्छन् कर्मवैषम्यम्, ब्रह्मांशेन समं जगत् । आत्माभेदेन यः पश्येदसौ मोक्षं गमी शमी ॥२॥
अनिच्छन् कर्मवैषम्यमिति- कर्मवैषम्यम्-ऊनाधिकत्वम्, अनिच्छन् गतिजातिवर्णसंस्थानब्राह्मणक्षत्रियादिवैषम्यं ज्ञानवीर्यक्षयोपशमकार्यवैषम्यमनिच्छन् उदयतः आचरणतः१ क्षयोपशमभेदे सत्यपि ब्रह्मांशेनचेतनालक्षणेन, अथवा द्रव्यास्तिक-अस्तित्व-वस्तुत्व-सत्त्व-अगुरुलघुत्व-प्रमेयत्व-चेतनत्व-अमूर्तत्व-असङ्ख्येयप्रदेशत्वपरिणत्या जगत्-चराचरम्, आत्माभेदेन-आत्मतुल्यवृत्त्या, सम-समानत्वेन यः पश्येत् सर्वजीवेषु समत्वं कृत्वा अरक्तद्विष्टत्वेन वर्तमानोऽसौ योगी मोक्षगामी सकलकर्मक्षयलक्षणावस्थां गच्छतीत्येवं शीलो भवति, यो हि सर्वजीवेषु जीवत्वतुल्यवृत्त्या रागद्वेषपरिणतिमपहाय आत्मस्वभावानुषङ्गी असौ योगी मोक्षं गमी भवति ॥२॥
आरुरुक्षुर्मुनिर्योगम्, श्रयेद् बाह्यक्रियामपि । योगारूढः शमादेव, शुद्धयत्यन्तर्गतक्रियः ॥३॥
आरुरुक्षुरिति- योग-समाधियोगं प्रति सम्यग्दर्शनज्ञानचारित्ररूपं मोक्षोपायलक्षणं योगम् आरुरुक्षुः-आरोहणेच्छुः, मुनि:-भावसाधकः, प्रीतिभक्तिवचनरूपशुभसङ्कल्पेन अशुभसङ्कल्पान् वारयन् आराधकः भवति, सिद्धयोगी तु रागद्वेषाभावेन उपशमीकृतार्थः, बाह्यां क्रियांबाह्याचारप्रतिपत्तिं श्रयेदपि-अङ्गीकुर्वनपि, शमादेव शुद्ध्यति-शमात्क्रोधाभावात् शुद्ध्यति-निर्मलीभवति । कथंभूतः मुनिः ? योगारूढःयोगे सम्यग्दर्शनज्ञानचारित्रे आत्मीयसाधनरत्नत्रयीलक्षणे आरूढः । पुनः कथंभूतः मुनिः ? अन्तर्गतक्रियः-अन्तर्गता वीर्यगुणप्रवृत्तिरूपा क्रिया
१. आचरणात: V.1.2.,B.1.2., A.D., S.M. । २. पश्यन् V.1.2 S.M.B.1.2.1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org