________________
રૂર૬
परिशिष्ट - ६
४६. समयसुन्दरोपाध्याय-[सं० १६४६]
कृत्वा समीपेऽभयदेवसूरिं, येनोपसम्पद्ग्रहणं प्रमोदात् । पपौ रहस्यामृतमागमानां, सूरिस्ततः श्रीजिनवल्लभोऽभूत् ॥११॥
-अष्टलक्षार्थी-प्रशस्तिः ४७. जयसोमोपाध्याय-[सं० १६५०]
श्रीजिनवल्लभसूरिस्ततोऽभवद् व्रतधुरैकधौरेयः। चण्डाऽपि हि चामुण्डा यत्सान्निध्यादचण्डाभूत् ॥ ५०८ ॥
__-कर्मचन्द्रवंशोत्कीर्तन-काव्य ४८. गुणविनयोपाध्याय-[सं० १६५१]
सोऽभूदभयदेवाख्यः सूरिः श्रीजिनवल्लभः। ज्ञानदर्शनचारित्रपात्रं भेजे ततो भृशम् ॥ ७ ॥ येन चण्डापि चामुण्डा दर्शनं प्रापिता गुणैः। कर्ता पिण्डविशुद्ध्यादि-शास्त्राणां तत्त्वशालिनाम् ॥ ८॥
-सम्बोधसप्तति-टीका-प्रशस्तिः ४९. ज्ञानविमलोपाध्याय-[सं० १६५४]
तत्पट्टे च विरेजुः कर्मग्रन्थादिशास्त्रकर्तारः। वैराग्यैकनिधानाः श्रीमज्जिनवल्लभाचार्याः ॥ ३॥
-शब्दभेदप्रकाश-टीका-प्रशस्तिः ५०. श्रीवल्लभोपाध्याय-[सं० १६५४] . तत्पट्टे जिनवल्लभसूरिवराः सर्वशास्त्रपारीणाः॥२॥
-हैमनाममालाशिलोञ्छ-टीका-प्रशस्तिः ५१. सुमतिवर्द्धनोपाध्याय-[सं० १८७४ ]
सत्प्रज्ञा हि जिनादिवल्लभगणाधीशा जगद्विश्रुताश्चामुण्डाभिधदेवताऽर्चितपदा आशुर्जिताक्षव्रजाः॥५॥
-समरादित्यकेवलीचरित्र-प्रशस्तिः
חחח
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org