________________
विशेषावश्यकभाष्ये उक्क० गाहा । इह यस्मादवग्रहादीनामुत्क्रमे वा तदेकवैकल्येऽपि वा न वस्तुनः सद्भावाधिगमोऽस्ति । अतः सर्वेऽपदिश्यन्तेऽवग्रहादयो नियतक्रमाश्चेति ॥२९४॥
ईहिज्जति जागहितं गज्जइ णाणीहियं ण याऽणातं ।
धारिज्जति जं वत्थु तेण कमोऽवग्गहादीयो' ॥२९५।।
ईहि० गाहा । यस्मान्नागृहीतमीह्यनं तेनेहादा[व]वग्रहः, यतश्च नानीहितमवगम्यते तेनावायादावीहा, यतश्च नाज्ञातं धार्यते वस्त्वतो धारणादाववाय इत्येवमवश्यमवग्रहादिक एषां क्रमोऽनुमन्तव्य इति ॥२९५॥
एत्तो च्चिय ते सव्वे हवंति भिण्णा य णेचे समकालं ।
ण वतिकमो य तेसिं णं यऽण्णधा णेयसभावो ॥२९६॥
एत्तो गाहा । नागृहीतमीह्यत इत्यादिष्टम् , अत एर हेतोरवग्रहादयः सर्वे मतिज्ञानप्रकाराः प्रत्यवसेयाः, नैकविकलापि हि मतिर्भवतीति । अत एव ते भिन्नाः परस्परतो न संकीर्णाः वस्तुपर्यायग्रहणादित्यर्थः । अत एव च समकालम येते सम्भवन्ति ग्रहणादिकालभेदादुत्तरोत्तरनिमित्तत्वाच्चेत्यर्थः । उत्क्रमव्यतिक्रमावप्यत एव न स्तस्तेषां ग्रहणादिक्रमनियमादेवेत्यर्थः । न च ज्ञेयसद्भावोऽन्यथा----अन्यथेत्येकवैकल्येऽप्यभेदेऽपि वा तत्कालैकत्वे तदुत्क्रमव्यतिक्रमयोरपि चेति ॥२९६॥
[२१-०] अब्भत्थेऽवाओ च्चिय कथयि लक्खिते इमो पुरिसो।
अण्णत्व धारण च्चिय पुरोवलद्धे इमं तं ति ॥२९७॥
अन्भत्थे गाहा । आह-क्वचिन्कस्यचित्स्वभ्यस्ते विषयेऽवग्रहेहाद्वयमतिक्रम्याऽन्यवाय [उ]पलक्ष्यते । यथायं पुरुष इति । अन्यत्र पूर्वोपलब्धे धारणैव यथेदं तदिति यदस्माभिः पूर्वमुपलब्धमिति ॥२९७॥ उच्यते
उप्पलदलसतवेधे व दुन्विभावत्तणेण पडिभाति ।
समयं व मुक्कसक्कुलिदसणे विसयाणमुवलद्धी ॥२९८॥
उप्पल गाहा । इहोत्पलदलशर्तव्यधनकालाविभागवन्न तत्रावग्रहादिकालविभागोऽपि [वि]भाव्यतेऽतिसौम्यात् । यथा वेहातिदीर्धशप्कुलीदशने युगेपेदेव सर्वेन्द्रियविषयोपलब्धिराभाति । न चासावस्ति एकत्वान्मनसोऽणुत्वाच्च । यतश्च मनसाऽनधिठितमिन्द्रियं स्वविषये में प्रवर्तते, विमनस्कस्याग्रहणात् ॥२९८॥ १ 'हाईओ को । 'हाई उ है। २ णेय न । ३ अन को। म अन्न हे । ४ वति-इति प्रती । ५ चो. अभ. जे। ६ कथइ को हे। ७ उजई को है त । ८ धर जे । ९ वेहव्व को। १० 'तव्यवन-इति प्रतौ । ११ दि च स -इति प्रती । १२ 'ये तु प्र -इति प्रती ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org