________________
२३६
विशेषावश्यकभाष्ये
उदर गाहा । इह यदुदयेन विरतिपरिणतिरात्मनो भवति, क्षयोपशमादितश्च भवति, ते प्रत्याख्यानावरणाः, केवलावरणवत् । यथेह यदुदयात् केवल परिणामापत्तिरात्मनो न भवति, क्षयाच्च भवति तत् केवलावरणमुच्यते, तद्वत् प्रत्याख्यानावरणा अपीति । केचित् केवलमपि विद्यमानमेवात्रियत इति मन्यन्ते तच्च न अभव्यादिकेवलप्रसङ्गात् । आवरणादकेवलप्रसङ्गात् - आत्रियते केवलं चेति विरोधात् । स्वात्मदर्शनप्रसङ्गात् स्थगित प्रदीपवत् । आवरणपरिक्षयेऽपि च तदनन्ते गुणावरणसभावादनुत्पत्तिप्रङ्गात् यतः सर्वजीवावरणपुङ्गलेभ्योऽप्येकाकाशप्रदेशपुद्गलान तगुणतेति
॥१२३४॥
मूलगुणाणं लंभं ण लभति मूलगुणघातिणो उदए ।
संजलगाणं उदए ण लभति चरणं अधक्खातं ॥। १११ ।। १२३५ ।। सम्मत्तसमेताइं महव्यताणुव्वतोई मूलगुणा । मूलं सेसाधारों वारस तस्यातिणो एते ॥१२३६॥
मूल० गाहा । सम्मत्त० गाहा । इह सम्यक्त्वं महाव्रताणुत्रतानि च मूलगुणाः, तदुत्तरगुणाधारत्वात् । एषामलाभो भवति मूलघातिनामुदये । मूलगुणघातिन च द्वादशानन्तानुबन्ध्यादयः || १२३५-१२३६॥
णिसिभत्तविरमणं पि हु णणु मूलगुणो कहं ण गहितं तं । वयधारिणो च्चिय तयं मूलगुणो सेसेयस्सित ||१२३७|| आहारविरमणातो तत्रो व्व तत्र एव वा जतोऽणसणं । TET महतसंरक्णत्तणातो समितयो व ॥१२३८ ॥ निसि० गाहा । आहार० गाहा । आह - ननु रात्रिभोजनविरमणमपि मूलगुणः । स किमुत्सृज्यते ! उच्यते- त्रतिन एव हि तन्मूलगुणोऽत्रतस्य उत्तरगुण एव, आहारविरमणात्तपोवत् । इतश्चोत्तरगुणः, तपोविशेषत्वादनशनवत् । कथं च तपोविशेषः अनशनत्वाच्चतुर्थादिवत् । इतश्चोत्तरगुणो महात्रतसंरक्षणात् समितिवत् ॥१२३७- १२३८ ॥
तथ वितयं मूलगुणो भण्णति मूलगुणपालयं जम्हा | मूलगुणग्गणम्मिय तं गतिं उत्तरगुणी' व्व ॥१२३९॥
त विगाहा । तथापि त्रतिनस्तन्मूलगुण एव शब्यते, समस्तमूलगुणान्न(नु) पालनात् प्राणातिपातविरमणवत् । मूलगुणग्रहणाच्च तदविरुद्धमेव उत्तरगुणवदिति साक्षादनभिधानात् ॥१२३९॥
१ न्तरण - इति प्रत । २ सेसिय त । ३ 'क' हे । ४ व कोहे |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org