SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ मावश्यकस्य पडाधिकाराः । किं पुण० गाहा । आह-किं पुनरिदं पडध्ययनमावश्यकम् ? उच्यते-पडाधिकारविनियोगात् । ते चामी सामायिकादीनां यथासङ्घयमुच्यन्तेऽधिकाराः ॥८९६॥ ‘सावज्जजोगविरती उक्कित्तण गुणवतो य पडिवत्ती । खलितस्स जिंदणा वणतिगिच्छ गुणधारणा चेव ॥८९७॥' सावन गाहा । सावधयोगविरमणमर्थाधिकारः सामायिकस्य, गुणोत्कीर्तनमहंतां चतुर्विशतिस्तवस्य, गुणवतो गुरोः प्रतिपत्तिः पूजाविशेपो वन्दनाध्ययनस्य, तशीलपु स्खलितनिन्दनं प्रतिक्रमणस्य, चारित्रात्मनो व्रणचिकित्सा कायोत्सर्गस्य, अपराधक्षतसंरोहणमित्यर्थः, व्रतातिचारेतरोपचितकर्मविशरणार्थमनशनादिगुणधारणं प्रत्याख्यानस्यार्थाधिकार इति वर्तते । एपां च प्रत्यध्ययनमर्थाधिकारद्वार एवावकाशः प्रत्येतव्यः । इह तु स्कन्धोपदर्शनद्वारेणाभिधीयन्त इति ॥८९७॥ दारकमागताणं वीसुं वीसुमिहमोहणिप्फण्णे । अज्झयणाणं णासं वक्खामो लायवणिमित्तं ॥८९८॥ दार० गाहा । यदुक्तमादौ श्रुतस्कन्धोऽध्ययनानि चावश्यकम् । तत्रावश्यकादिन्यासोऽभिहितः । अध्ययनन्यासावसरः । स चानुयोगद्वारक्रमायातः प्रत्यध्ययनमोघ एव वक्ष्यते लध्वर्थः ॥८९८॥ . [५९-द्वि] आवस्सयस्स एसो पिण्डत्थो वण्णितो समासेणं । एत्तो एक्केक्कं पि य अज्झयणं वण्णयिस्सामि ॥८९९॥ आवस्स० गाहा । पिण्डाथैः समुदायार्थः आवश्यकस्य श्रुतस्कन्ध इति शास्त्रस्यान्वर्थाभिधानात् समुदायार्थोऽयमुक्तः । अवयार्थोपदर्शनार्थमिदानीमेकैकमध्ययनं वक्ष्यामः ॥८९९|| तत्वज्झयणं सामाइयं ति समभावलक्खणं पढमं । जं सव्वगुणाधारी वोमं पिव सव्वदचाणं ॥९००। तत्थ० गाहा । तत्र प्रथममध्ययनं सामायिक समभावलक्षणम् । समभावलक्षणत्वाच्च सर्वगुणाधारः । यतो न समताशून्ये गुणावस्थानमस्ति ॥९००॥ अधवा तब्भेत चिय सेसा जं दसणादियं तिविधं । ण गुणो य णाणदंसपाचरणम्भतिश्री जतो अस्थि ॥९०१॥ अथवा गाहा । अथवा चतुर्विशतिस्तवादयस्त दा एवेति सामायिकमादावुच्यते, यतः सम्यग्दर्शनादित्रिविधं सामायिकमुक्तम् । न च सम्यग्दर्शनादिभ्योऽन्यद् गुणजातीयमस्ति ॥९०१॥ १ अनु० सू०.८ । २ व पुण म को हे त । ३ एषा गाथा अनुयोगाद्वारीया सू० ५९ । २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002657
Book TitleVisesavasyakabhasya Part 1
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1993
Total Pages306
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy