SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ लक्ष्मणकृतः 350 गणस्य दाता क्षीयेत गणस्य तु न किञ्चन । गणाद्ग्रहीता वर्धेत गणस्य तु न किञ्चन ॥२२ 351 स्वतो न कश्चन गुरुलधुर्वा नापि कश्चन ।। उचितानुचिताचारवश्ये गौरवलाघवे ॥२३ 352 यदीच्छसि वशीकर्तुमक्लेशेन जगत्त्रयम् । परापवादसस्येभ्यश्चरन्ती गां निवारय ॥२४ 353 अनवस्थितचित्तस्य प्रसादोऽपि भयङ्करः । सर्पिण्यत्ति किल स्नेहात् स्थापत्यानि न कामतः ॥२५ 354 वने रतिर्विरक्तस्य रक्तस्य तु जने रातः । अनवस्थितचित्तस्य न वने न जने रतिः ॥२६ 355 यद्यत्परवशं कर्म तत्तयत्नेन वर्जयेत् । यद्यदास्मवशं तु स्यात् तत्तत्कुर्वीत सर्वतः ॥२७ 356 सर्व परवशं दुःखं सर्वमात्मवशं सुखम् । एतदुक्तं समासेन लक्षणं दुःख सौख्ययोः ॥२८ 357 अधोमुखं त्रयं नेयं नेयमूर्ध्वमुखं त्रयम् । __ वापीकूपतडागानि यशो देवकुलं कुलम् ॥२९ 358 त्रयः स्थानं न मुश्चन्ति काकाः कापुरुषाः मृगाः । मुञ्चन्ति त्रयः स्थानं सिंहाः सत्पुरुष! गजाः ॥३० 359 सप्तैतानि न पूर्यन्ते र्यमाणान्यपि क्वचित् । ब्राह्मणाग्निर्यमो राजा समुद्र उदरं गृहम् ॥३१ 360 सधः प्रीतिकरो दाता सद्यश्वित्तहराः स्त्रियः । सद्यः पुष्टिकरं तोयं सद्यः पतति विप्रहा ॥३२ 361 दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं पिबेज्जलम् । सत्यपूतं वदेद्वाक्यं मनःपूतं समाचरेत् ॥३३ 362 सत्यं ब्रूयात्प्रियं ब्रूयात् न ब्रूयात्सत्यमप्रियम् । प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥३४ 350 ख. गणादग्रहीत || 351 प. गुरुलधुवापि 7 कस्य च । 353 ख. स्वापत्यान्नि न कामतः । 355 ख. कुर्वन्ति ॥ 356 ख. सुखदुःखयोः। 357 ख तडागा यशो। 361 प. क्षिपेत्पादं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002653
Book TitleSuktiratnakosa
Original Sutra AuthorN/A
AuthorLakshman, Nilanjana Shah
PublisherL D Indology Ahmedabad
Publication Year1982
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy