SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ सूक्तिरत्नकोषः 113 भयमेकमने केभ्यः शत्रुभ्यो युगपत्सदा । ददासि यच्च ते नास्ति सनन् चित्रमिद महत् ॥११ 114 सौकरं रूपमास्थाय हरिणाप्युद्धृता मह। ।। असौकरं त्वया कृत्वा राजन् चित्रमिदं महत् ।।१२ 115 चित्रं कारणमन्यत्र कार्यमन्यत्र दृश्यते । महान् प्रतापो देवस्य दाहस्तु हृदि विद्विषाम् ॥१३ 116 दोषाणां च गुणानां च त्वयि संख्या न विद्यते । गुणानामप्रमेयत्वादोषाणामप्यसंभव त ।।१४ 117 भूभृदंशप्रभृतानां धनुषां च द्विषां चयः । जीवापकर्षणं चक्रे समं समरसोमनि ॥१५ 118 आशंकित सुनासीरे नासोरे यस्य सर्पति । स्पर्द्धयेव प्रसर्पन्ति प्राणाः प्रत्यर्थिभूभृताम् ॥१५ सोमेश्वरस्येते । 119 मन्ये वास्तव्यमेवासीत् त्वच्चापं हृदि विद्विषाम् । रणभूमौ नमत्यस्मिन्नेमुस्ते , कथमन्यथा ।।१७ वाहडस्य । 120 प्रायेण सर्वं पश्यन्ति विपरीत विनश्वराः । यतः काञ्चनगौराऽपि काल एवासि विद्विषाम् ॥१८ 121 तुलामारुह्य रविणा वृश्चिके निहितं पदम् । भवता शिरसि न्यस्तमयत्नेनैव भोगिनाम् ॥१९ 122 विचरेदेकपाधर्मः कथमस्मिन् कलो युगे।" यदि वंशस्त्वदीयोऽयं न स्यादस्यावलम्बनम् ॥२० 123 असिंदूरेण सीमन्ता मा भूत्ते योषितामिति । त्यक्त्वा प्रयान्तु सीमान्तादसिं दूरेण तेऽरयः ॥२१ 113 ख. तच्चते ॥ ' '116प० दोषानां च गुणानां च ॥ 119 'प्रणता' इति ख. प्रतौ टिप्पणी । 122 कृतयुगेन' इति प. प्रती टिप्पणी । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002653
Book TitleSuktiratnakosa
Original Sutra AuthorN/A
AuthorLakshman, Nilanjana Shah
PublisherL D Indology Ahmedabad
Publication Year1982
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy