________________
144
Mallika-Makaranda
१५) अपराधोऽपि सोढव्यो वाञ्छितार्थविधायिनः ।
दहन्नप्यग्निना तुन्दं गुल्मिभिः पूज्यते भिषकू ।।-२.१८ यावत् कुरङ्गनेत्रा तरुणी तरुणस्य दास्यमाधत्ते ।। वृद्धोऽपि तावदिच्छते न वीक्षते योग्यतामिछा ।।-२.२० पृथिव्यां वीरभोग्या लक्ष्म्यां चारल्यसंस्पृशि । स्त्रियां चाशक्यरक्षाया कस्य किं नाम नोचितम् ॥-२.२१ अकाण्डकोपिनो भतरन्यासक्तेश्च योषितः ।
प्रसत्तिचेतसः कर्तुं ब्रह्मणाऽपि न शक्यते ॥-३.३ १९) उत्पातेषु महत्स्वपि सुमेधसा जीवित न हातव्यम् ।
सति जीविते कथञ्चिद् घटते किञ्चित् पुनः प्रेयः ॥३.१० क्षणदृष्टेऽपि कुत्रापि दृढं सङ्घटते मनः । बालस्तदात्वजातोऽपि जनन्याः स्निह्यति स्तने ॥-३.१३ स्थातु तेजस्विना शक्य न जातिष गतश्रिया । अस्तापास्तवपुर्भास्वान् नभस्तेन विमुञ्चति ॥-३.५२ पुण्यस्य समिधः सत्य-दया-दान-प्रशान्तयः ।
अस्त्राऽग्नि-कण्ठपाशास्तु देहदुःखाय केवलम् ।।-४.३ २३) मानिनो मानिनस्तावद् यावद यान्ति न दीनताम् ।
संसहेत न बन्ध यः केशरी केशरी :हि सः ॥ ४-२१ २४) वर्णानपेक्षं शौण्डीर्य सत्वमात्रे निषीदति ।
सत्त्वं तु वणिजेऽपि स्यान्न स्त् क्षत्रेऽपि च क्वचित् -४.२२ २५) कपूरप्रभवस्यापि प्रदीपस्या सता मषी ।
विद्विषो विनतस्यापि प्रियमायाति विप्रियम् ॥-४.२४ २६) असंतृप्ता विपद्यन्ते विभवस्य विश्चितः ।
रतस्य राजकामिन्यः स्वस्थस्य खलसेवकाः।-५.१ आपदां स्कन्धमायोज्य स्तब्धाः सर्वत्र मानिनः । राजदण्डं हि पश्यन्तो धन मुष्णन्ति दस्यवः ॥-५-२६
मल्लिकामकरन्दस्थसूक्तयः
१ पटुभिरपि नोपसर्पति चटुभिरयं निष्प्रयोजनो लोकः ।-पृ १ २ पणीकृतप्राणसंपदां हि महौजसां किं नाम साध्यमसाध्यं वा ।-पृ ८ ३ व्ययसनान्धा हि प्राणव्ययेनापि धनार्थ प्रयोजनं साधयन्ति ।-पृ १२ ४ अथवा व्यसनान्धमेवेदं जगत् । पृ १३ ५ जीवंताण पुणो वि संगमो भविस्सदि । (जीवतोः पुनरपि सङ्गनो भविश्य त । इति च्छया । -पृ २१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org