________________
निर्विकृतिकादीनां सब्ज्ञानामानि तदपि कर्तुमक्षमस्य ततः स्वस्थानात्परस्थानं-परस्थानतपः। वर्षास्वपि शिशिरोक्तं, शिशिरेऽपि च ग्रीष्मोक्तं तपो दीयते । इत्येवमधोमुखे हासे स्थाने स्थाने वर्षाशिशिरग्रीष्मरूपे हासयद्भिः तावन्नेयं यावन् निर्विकृतिकमात्रमेव देयतया स्थितम् । शुद्धो वा यः पुनर्निर्विकृतिकमात्रमपि तपःकर्तुमशक्तः स मिथ्यादुष्कृतेनैव शुद्धचतीत्यर्थ इति गाथार्थः ।। १३६ ॥
____ एष नवविधो व्यवहारः । अस्य च व्यवहारस्य व्यक्तीकरणाय यन्त्रकस्थापना। तत्र चोत्कृ. ष्टादीनि जघन्योन्तानि तपांसि स्थाप्यन्ते । यथासुखेन हासः कत्तुं शक्यत इति । सूत्रे तु यथा कथञ्चिदतानि विचित्रत्वात् सूत्ररचनाया इति । इति श्रुतव्यवहारयन्त्रकस्वरूपं तत्स्थापना चेयम
सम्प्रति निर्विकृतिकादीनां क्षपणत्रयान्तानां सञ्ज्ञानामान्याह
पण तव कल्लाण निवी-पुरिमासण-अंबिलेगदुतिखमणा ।
मिन्नं लहु गुरु चउलहु चउगुरु छल्लहु छगुरुंमासा ॥ १३७ ॥
व्याख्या-पञ्च तपांसि निर्विकृतिकपुरिमार्द्धंकाशनाचामाम्लोपवासरूपाणि समुदितानि पञ्चकल्याणमुच्यते । किञ्चिदूनोपवासद्वयेनैक कल्याणकमित्यर्थः । तद्विगुणवृद्धया द्विकल्याणकादीन्यप्यवसेयानि । तथा निर्विकृतिकपुरिमाकोशनाचामाम्लैकद्वित्रिक्षपणोनि क्रमेण मिन्नलघुमासादिसज्ञानि भवन्ति । अयमर्थः-निर्विकृतिकस्य भिन्नमासः १, पुरिमार्द्धस्य लघुमासः २, एकाशनकस्य गुरुमासः ३, आचामाम्लस्य चतुर्लघुमासः ४, एकक्षपणस्य चतुर्थस्य चतुर्गुरुमासः ५, क्षपणद्वयस्य षष्ठस्य षड्लघुमासः ६, क्षपणत्रयस्याष्टमस्य षड्गुरुमासः ७ इति सज्ञानामानि यथाक्रमं जीतपरिभाषयोच्यन्त इति गाथार्थः ॥
पुनस्तेषामेव क्रमेण सज्ञान्तराण्याहइगचउछ सुन्न लहुगुरु रित्तभरिय केवलीसरा अंका ।
चउछलहू एक फ गुरू सागरा मिनि पणगना ॥ १३८ ॥
व्याख्या- एकं चत्वारि षट् च शून्यानि स्थाप्यन्ते । तानि लघुगुरुभेदेन द्विधा भवन्तीति रिक्तानि भृतानि च क्रियन्ते । तत्र यानि रिक्तानि-मध्ये शून्यानि तानि क्रमेण लघुचतुर्लघुषड्लघून्यु. च्यन्ते । यानि पुनर्मध्ये भृतानि-पूरितानि क्रमेण गुरुचतुर्गुरुषड्गुरूण्युच्यन्ते । अथवा-केवला:-स्वरसंयोगरहिताः ईस्वराः-ईकोरः स्वरो येषु ते ईस्वराः-ईकारस्वरसहिता इत्यर्थः ५ अका-एकक-चतुष्कषटकरूपा भवन्ति । अयमर्थः-यदि ते एककचतुष्कषट्करूपा अङ्काः केवलाः १।४।६। तदा क्रमेण लघुचतुर्लघुषड्लघव उच्यन्ते । अथ ईस्वरयुक्ताः । ४ी। ही यदि भवन्ति तदा गुरुचतुर्गुरुषड्गुरव उच्यन्ते । तथा चतुर्लघुषड्लघू एक-फ्र शब्दाभ्यां क्रमेणोच्यते । तावेव गुरू साकारौ-आकारस्वरयुक्तावित्यर्थः । एका चतुर्गुरुः , फ्रा षड्गुरुरित्यर्थः । भिन्ने पुनः पञ्चको ५ नाशब्दश्च सज्ञान्तरद्वयं भवतीति शेषः । अयं च गाथाद्वयार्थो यन्त्रकस्थापनातः सम्यगवसीयते । तस्य स्थापना चेयम् इति गाथार्थः ॥१३८॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org