________________
श्राद्धजीतकल्पे व्याख्या-तप्रवचनप्रणामोऽहं जीतगतं श्राद्धदानप्रायश्चित्तं किमपि जल्पामीतिक्रियासम्बन्धः । प्रकर्षण-परसमयापेक्षया यथावस्थितभूरिभेदप्रभेदैरुच्यन्ते जीवादयः पदार्था अनेनास्मिन्निति वा प्रवचनम्-सामायिकादि बिन्दुसारपर्यन्तं मुख्यतः श्रुतज्ञानम् । उपचारात् तत्रोपयुक्तश्चतुर्विधः सङ्घोऽपि । कृतः प्रवचनस्य, मनसो तत् तद्गुणचिन्तनादिरूपो वाचा तदुचारणादिस्वरूपः कायेन भूमौ शिरोलगनादिलक्षणश्च प्रणामो येन स तथा । एतेन शास्त्रकृन्मङ्गलमभिदधे । जीतगतं-जीतव्यवहारानुप्रविष्टं, श्राद्धदानप्रोयश्चित्तं-श्राद्धानां श्रमणोपासकानामतिचारौचित्येन दानयोग्यं पापं छिनत्तीति पापछित् । अथवा प्रायः चित्तं-जीवं मनो वाऽतिचारमलमलिनं शोधयतीति प्रायश्चित्तम् । यदुक्तम्पावं छिंदइ जम्हा पायच्छित्तंति भण्णए तम्हा । पाएण वावि चित्तं विसोहए तेण पच्छित्तं ॥१॥
___ आर्षत्वात प्राकृतेन पच्छित्तं । किमपि-कियन्मात्रं, न सर्ब सामस्त्येन श्राद्धातिचारविशेषप्रायश्चित्तानां प्रकाशनासामर्थ्यात् । जल्पामि-प्रतिपादयामीत्येतेनाभिधेयमाह । प्रयोजनं द्वधा-कर्तुः श्रोतुश्च । द्वयमपि द्विधा-अनन्तरं परम्परं च । तत्रानन्तरामिधित्सयाऽऽह-किमर्थं ? 'सपरहिअधारणटु'त्ति। खपरहितधारणार्थाय । स्वपरयोर्हितं तच्च तद्धारणं चेति वा समासः। एतेन कर्तुः श्रोतुश्चानन्तरं प्रयोजनमुक्तम् । परम्परं पुनरुभयोरपि प्रायश्चित्तपदानां याथातथ्यप्रवर्त्तनेन परम्परया निःश्रेयसावाप्तिर्भवतीति स्वयमभ्यूह्यम् । सम्बन्धस्तु प्रायश्चित्तपदज्ञानमुपेयमिदं शास्त्रं तस्योपाय इत्येवमुपायोपेयलक्षणः सामर्थ्यादवसेयः । कथं १ यथाश्रुतं-श्रुतस्य-निशीथादेरनेकश्राद्धजीतकल्पलक्षणस्य स्वगुरुसम्प्रदायागतस्य चानतिक्रमेण । यथा तेषूक्तं तथैव, न स्वमनीषीकयेति गाथाक्षरार्थः ।
इह प्रवचने पञ्च व्यवहाराः प्रोच्यन्ते, तेषु व्यवहारेषु जीतव्यवहारानुसारेणैवात्र प्रायश्चित्तपदानि कथयिष्यन्ते । ते चामी पञ्च व्यवहारा आगम-श्रुता-ऽऽज्ञा-धारणा-जीताख्याः । “ आगम-सुअआणा-धारणा य जीए अ पंच ववहारा” इति वचनात् । एतेषां च परस्परमयं विशेषः । तथाहि-आगमव्यवहारिणस्तावत् षड्विधाः, तद्यथा-केवलिनो मनःपर्यायज्ञानिनोऽवधिज्ञानिनश्चतुर्दशपूर्विणो दशपूर्विणो नवपूर्विणश्च । “ केवल-मणो-हि-चउदस-दस-नवपुव्वाइं पढमित्थ" इति वचनात् । अत्र यदा केवली प्राप्यते तदा तस्याऽग्रे प्रायश्चित्तं गृह्यते, तदभावे मनःपर्यवज्ञानिनः पाश्व, एवं पूर्वपूर्वाभावे उत्तरोत्तर. स्यान्तिके प्रायश्चित्तमङ्गीक्रियते यावन्नवपूर्विणः पार्श्व इति । ते च केवल्यादयो जानाना अप्यालोचकमुखेन तदपराधपदानि शण्वन्ति, न तु स्वयमेव ज्ञात्वा प्रायश्चित्तं ददते । एवमेव मानभ्रंश-निर्मायता-ऽऽराधनादिभावात् । ततो निर्मायितयाऽऽलोचिते प्रायश्चित्तं ददते । समायतया तु स्वापराधपदाऽनालोचनेऽन्यस्य पार्श्वे आलोचयेति कथयन्ति। आलोचितेऽपि च सम्यग् प्रत्यावृत्तस्यैव प्रायश्चित्तं ददते, नाऽन्यस्य । विस्मृतं तु स्मारयति न तु गोपितं निष्फलत्वादिति । वक्ष्यति च-' कहेहि सव्वं जो वुत्तो०।९। 'न संभरेइ जे दोसे० ' ।२ । इत्यादि । १ ।
श्रुतव्यवहारिणश्चाष्ट-सप्त-षट-पञ्च-चतु-त्रि-द्वकार्द्धपूर्विण एकादशाङ्गधारिणो निशीथकल्पव्यवहारदशाश्रुतस्कन्धपञ्चकल्पाद्यशेषश्रुतसूत्रार्थाभिज्ञाश्च । श्रुतव्यवहारश्याचाराङ्गादीनामष्टमपूर्वा न्तानामेव । यदुक्तम्-' आयारपकप्पाई सेसं सव्वं सुअं विणिट्टि 'मिति ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org