________________
सामायिकपोषधव्रतविषयं प्रायश्चित्तम् कन्नोण फालणं नासवेहवद्धिअयडंभणं तिरिसु । कंबलपुच्छछेयणपमिईनिलंछणं भणियं ॥ १३ ॥ वणदवदाणमरण्णे दवग्गिदाणं च जीववहजणयं । सरदहतलायसोसो बहुजलयरजोववहकारी ॥१४॥ मज्जारमोर-मक्कडकुकुड-सालहिअकुकुरोईणं । दुट्ठित्थिनपुंसाईण पोसणं असइपोसणया ॥ १५ ॥ एवं सङ्क्षपतः पञ्चदशकर्मादानस्वरूपमिति गाथार्थः ॥१२॥
___ अथ गाथानुलोम्येन देशावकाशिकदशमव्रतस्य प्रायश्चित्तविधेः पूर्वमुक्तत्वात् साम्प्रतं सामायिकपौषधोपवासवतयोर्नवमैकादशमयोः प्रायश्चित्तविधिमाह
नियमे पोसहसामाइअकरणे चउगुरू अपारणए ।
इह पुत्तीहारवणे चउगुरु लाहे पुणो भिन्नं ॥९३ ॥
व्याख्या-नियमे सति पौषधस्य सामायिकस्य चाकरणे चतुर्गुरवः । तथा 'अपारणे 'त्ति । ‘डमरुकमणि' न्यायेन 'चगुरु' इत्यस्यात्रापि योगात् पौषधसामायिकयोरपारणेऽपि चतुर्गुरु प्रायश्चित्तं भवति । मतान्तरेणापारणे चतुर्लघु । नियमाभावेऽपि सुश्रावकस्य सामग्य सत्यां सामायिकाकरणे लघुमासः। तथा इह पौषधसामायिकयोरङ्गीकृतयोर्यदि मुखवत्रिकी सर्वथा नाशयति तदा चतुर्गुरु । मतान्तरेण चतुर्लघु । लाभे-पुनस्तस्याः प्राप्तौ भिन्न-भिन्नमासः । पुनःशब्दाद् हस्ताद्यवग्रहाद् बहिःस्थितायामपि तस्यां भिन्नमासः । कचिन्नमस्कारावलिकानां नाशने च मासगुस् । इति गाथार्थः॥९३॥
अथ विशेषतः पौषधविधिविषयं प्रायश्चित्तमाह
वसहि-अपमजणे तह सज्झाय-निसीहियावसिअकरणे । इरिआइ अपडिकमणे उवही थंडिल अपडिलेहे ॥ ९४ ॥ अपमजिउ कवाडुग्घाडे पिहणे अ कायकंडुअणे ।
कटाइगहणमुअणे मिन्नं कुड्डाइवर्टमे ॥ ९५ ॥ व्याख्या-यदि गृहितपौषधोपवासघ्रतो द्विवेलं वसतिं न प्रमार्जयति । तथाशब्दाद्रात्रौ वपन् संस्तारकभूमि कायोत्सर्गकरणभूमि वा न प्रमार्जयति, चतुःकालं स्वाध्यायं न करोति, वसत्यादौ प्रविशन्नैषेधिकी न कथयति, उपलक्षणादौपग्रहिकरजोहरणेन पादौ न प्रमार्जयति, शिरस्यञ्जलिं न बध्नाति च, तथा निःसरन्नावश्यकीं न करोति, तथा कायिकादिपरिष्ठापने हस्तशतादागमने पयस्त्यागादौ वेर्यापथिकी न प्रतिक्रमति, उभयकालमुपधि स्थण्डिलानि चागोढोच्चारप्रश्रवणमरिष्ठापनार्थ न प्रत्युपेक्षते । नषेधिक्यादिस्वरूपं स्थण्डिलानां प्रमाणसङ्ख्यादिस्वरूपं च ग्रन्थान्तरतोऽवसेयम् । तथा 'अपमज्जिउ 'ति। पृथग पृथग् सर्वत्र सम्बध्यते । ततश्च कपाटादीन् पूर्व चक्षुषा निरीक्ष्य औपग्रहिकेन साधुसत्केन या रजोहरणेनाप्रमार्योद्घाटयति । पिदधाति-स्थगयति वा । तथाऽप्रमाय कायं शरीरकं कण्डूयति । तथा काष्ठपीठफलकमात्रकदण्डकादिकमप्रमाय॑ गृहाति मुञ्चति वा, कुडये-मित्तौ आदिशब्दात् स्तम्भमालादावप्रमाावष्टभ्नाति । एतेषु सर्वेष्वपि स्थानेषु भिन्न-भिन्नमासः प्रायश्चित्तं भवतीति गाथाद्वयार्थः॥ ९५ ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org