________________
अभक्ष्यनियमभङ्गविषयं प्रायश्चित्तम्
गुण निष्कारणं - रोगधरणादिकारणं विना रात्रिभोजने चतुर्गुरुद्वी । एके तु कारणे रात्रिभोजने चतुगुन्निः कारणे षड्गुरूंश्च प्रायश्चित्तं प्राहुः । अथानर्थदण्डविरमणव्रतविषये किचिद्विशेषतः प्रायश्चित्तविधिमाह - ' कोहे ' इत्यादि । क्रोधे पक्षातीते - पक्षाद्यतीते पक्षं चतुर्मासकं वाऽतिक्रम्यापि कृतावस्थाने तथा प्रगाढेषु-पक्षाद्यतिक्रान्तेषु मायोमदादिषु, लोभातिरेकतः परवञ्चनात्मिका माया मदो-जात्यादिरष्टप्रकारः पीठिकायां प्रागुक्तस्वरूपः, आदिशब्दात् प्रगाढलोभादिषु कलहादिषु च प्रत्येकं चतुर्गुरुकं प्रायश्चित्तं भवतीति । गुरु' इत्येतस्य पूर्वार्द्धप्रतिपादितस्य सर्वत्रापि योगादिति गाथार्थः ॥ ८८ ॥
4
अथ यः श्राद्धादिः उपशामनशक्तौ क्रोधादीन् कुर्वन्तं पुमांसं नोपशामयति, तस्य किं प्रायवित्तम् ? इति प्रकरणागतं तत् प्रायश्चित्तविधिमाह -
जो जम्हा उवसमई विज्झवणं तेण तस्स कायव्वं ।
जो उ उवेहं कुज्जा सो पावइ मासियं लहुयं ॥ ८९ ॥
व्याख्या– यो यस्मादुपशाम्यति निवृत्तानुशयो भवति, तेन तस्य ' विज्ावणं - विध्यापनं कर्त्तव्यं, प्रकरणात् क्रोधाग्नेरितिशेषः । शास्त्रान्तरेषु क्रोधादीनामग्न्याद्युपमानस्य सुप्रसिद्धत्वात् । 'जो उ उवेह ' मित्यादि । एवं सति यस्तु श्राद्धादिः तत्र शक्तोऽप्युपेक्षां कुर्यात् स प्राप्नोति मासिकं लघुकं, तस्य लघुमासप्रायश्चित्तशोध्यं दूषणं भवतीति भावः ॥ ८९ ॥
अथ भोगोपभोगगुणवते ऽभक्ष्य नियमभङ्गविषयं प्रायश्चित्तमाह
महु - पंचुंबरि- फल - फुल्लमाइवयभंगि गुरुग अन्नाए । नाए छगुरु अनियमे पिसिआसव - मक्खणे दसगं ॥ ९० ॥
,
6
व्याख्या - मधु - प्रतीतं, पञ्चोदुम्बरी - ' उदुम्बरवटप्लक्ष - काकोदुम्बरशाखिनाम् । पिष्पलस्य च नाश्नीयात् फलं कृमिकुलाकुलम् ' ॥ १ ॥ इत्याद्युक्तरूपा । फलं - वृन्ताकादि । पुष्पं- मधूकादि । आदिशब्दादुषित द्विदल हिमविषादिपरिग्रहः । एतेषां व्रतस्य - नियमस्य भने ' अन्नाए 'त्ति । अज्ञाते - ऽनाभोगेन इत्यर्थी, जाते सति 'गुरुग 'ति । गुरुकाश्चतुर्गुरवः प्रायश्चित्तं भवतीति । नाए छग्गुरु 'त्ति । ज्ञातेआभोगे सति मधुप्रभृतीनां नियमभङ्गे षड्गुरु प्रायश्चित्तं भवति । अन्ये तु सामान्येन पयोदुम्बरीफलपुष्पादित्रतभङ्गे लघु, नमस्काराष्टशतं त्वेके । अपरे तु नियमं विनाऽपि पोदुम्बर्यादिषु निषिद्धेषु भक्षितेषु चतुर्गुरु, नियमभङ्गे तु षड्गुरुकमाहुः । अनियमेत्यादि । यस्य त्राह्मणवणिजादेर्जातिस्वभावादेव पिशितादीनि न भक्ष्यन्ते तस्य निर्विषयत्वात्कदाचिदकृतनियमस्यापि पिशितासवम्रक्षणानां । तत्र पिशितं -मांस, आसवो - मद्यं, क्षणं - नवनीतम् । एतेषां भक्षणे दशकं - क्षपणानामिति गम्यत इति गाथार्थः ॥ ९० ॥
अथ भोगोपभोगगुणत्रत एवानन्तकाय प्रत्येक वनस्पतिनियमविषयं प्रायश्चित्तं किञ्चिन् मांसा - सवविषयं विशेषप्रायश्चित्तं चाह
Jain Education International 2010_05:
For Private & Personal Use Only
www.jainelibrary.org