________________
श्राद्धजीतकल्पे
दाने स्वगृहेऽज्ञाते गुरुः-गुरुमासःशी तस्मिन्नेव ज्ञाते चतुर्लघुप । मतान्तरेण चतुर्गुरु ।। ' जिट्ठि 'त्ति। स्वगृहे उत्कृष्टादत्तादानेऽज्ञाते दशकं क्षपणानामिति गम्यते । 'सकलह 'त्ति । ज्ञाते चोत्कृष्टादत्तादाने राजकुलपर्यन्ते च कलहे सम्पन्ने षट् पञ्च कल्यानि-षष्टिः क्षपणानामित्यर्थः । अन्ये तु स्वगृहेऽन्नादिचोरणे लघु, वनद्रव्यादौ गुरु, ज्ञाते च चतुर्लघु । स्वर्णादौ परकीये चोरिते क्षपणदशकम् । ज्ञाते कलहे च क्षपणदशकं स्वाध्यायलक्षयुतमिति । केचित्तु शुल्कचौर्यांध विश्वासघातेधी च प्राहुरिति गाथार्थः ॥८॥
अथ चतुर्थाणुव्रतविषयं प्रायश्चित्तविधिमाह
सहसापमायणाभोगि छलहु छगुरु अ चउगुरु सदारे ।
वेसाइ छलहु-छगुरु-छल्लहु इत्तरियवयभंगे ॥ ८१ ॥
व्याख्या-सहसाकारः-पूर्वातिप्रवृत्तक्रीडाभ्यासतोऽविमृश्यकरणम् । प्रमादः-कषायविषयादिलक्षणः। यदुक्तम्
'मज्जं विसयकसाया निद्दा विगहा य पंचमी भणिआ। एए पंच पमायो जीवं पाडंति संसारे' ॥ १ ॥ अथवाऽज्ञानसंशयादिस्वरूपः। तथा चोक्तम्
'पमाओ अ जिणिंदेहिं भणिओ अट्ठभेअओ । अन्नाणं संसओ चेव मिच्छानाणं तहेव य ॥१॥ रागो दोसो मइब्भंसो धम्ममि य अणायरो । जोगाणं दुप्पणीहाणं अट्टहा वज्जिअव्वओ' ॥२॥ त्ति । अनाभोगो-ऽत्यन्तविस्मृतिः । एतैः ‘सदारे 'त्ति । स्वकलत्रविषये इत्वरिकव्रतभङ्गः-कियत्कालावधिगृहीतनियमलोपोऽष्टम्याद्यङ्गीकृतनियमभङ्गो वा, तस्मिन् जाते सति षड्लघु-षड्गुरु-चतुर्गुरवो भवन्ति। अयमभिप्रोयः-सहसाकारेण स्वदारेषु नियमभङ्गे षड्लघु ६, प्रमादेन षड्गुरु ६ी अनाभोगेन चतुर्गुरुवा। केचित् सामान्येनैव स्वकलत्रविषयेऽष्टम्यादिगृहीतनियमभङ्ग फ, मतेन फ्रा, आदेशान्तरेण एका । 'वेसाइ छलह 'त्ति । वेश्यायां तु सहसाकारादिभिरित्वरिकनियमभङ्गे क्रमेण षडलघु-षड्गुरु-षड्लघूनि भवन्ति । मतान्तरेण सहसाकारादिभिस्त्रिभिरपि नियमभङ्गे षड्गुरुकमेव । अन्ये त्वाहुः-स्वदारेत्वरव्रतभङ्गे वेश्येत्वरव्रतभङ्गे च षड्लघु इत्वरायां-कियत्कालान्यपरिगृहीतायां स्वयं धृतोयां वा गमने षड्गुरु । एवं स्त्रियाः स्वपुरुषेऽनाभोगादिमिरित्वरिकव्रतभङ्गे क्रमेण फ्र। फ्रा। एका । सपल्या वारके फ्र। इति गाथार्थः ।।८।।
पुनरत्रैव विशेषमाह
आभोगे पणकल्लं दुण्ह कुलवहूइ मूलमविसंकं ।
सासकमनाए पणकल्लं नाए छ पण कल्ला ॥८२॥
व्याख्या-आभोगे-नियमोऽस्ति ममेत्युपयोगे जानानस्येत्यर्थः । स्वदार-वेश्यादिनियमभङ्गे प्रत्येकं पञ्चकल्याणम । उक्तं च 'आभोगे पञ्चकल्लमिक्किक्के । इह च स्त्री पुरुषो वा यो बलात्कारं करोति तस्येदमितरस्य तु पूर्वोक्तमेव । उभयसम्मत्या तूभयोरपि पश्चकल्यम् । 'दुण्ह कुलवहूइ'त्ति । तथा परस्त्री
कुलवघूगमने द्वयोरपि निःशङ्कयोर्मूलम् । पुनः श्रावकधर्मारोपः क्रियते, पाण्मासिकं वा तपो देयमिति _ 'छम्मासं बहुअपावे वी 'ति वचनात् । श्रीमहावीरतीर्थे उत्कृष्टतोऽपि षण्मासान्तमेवातिचारशुद्धयर्थ
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org