________________
पार्श्वस्थादीनां स्वरूपम् चिकित्सा-रोगप्रतीकारं । 'चप्पुडिअ 'त्ति । चप्पुटिकां । ' रक्खडी 'त्ति । रक्षाटिकां । 'खडिअं'ति । खटिका । 'सिसुकीलणे'ति । शिशुक्रीडनं । 'घरकम्म'ति । गृहकर्म च धवलनचित्रकरणादि । एतानि सर्वाण्यपि श्राद्धो यदि साधुमिः कारयति तदो श्राद्धस्य पञ्चकल्यं प्रायश्चित्तं भवतीति । 'कयविक्कयमेसिमेहिं व 'त्ति । तथैतेषां साधूनां सम्बन्धिवस्तुनः क्रयविक्रययोः करणे । तथैतैर्वा साधुमिः स्वसम्बन्धि वस्तुनः क्रयविक्रययोर्विधापने च श्राद्धस्य पञ्चकल्यं प्रायश्चित्तं भवतीति प्रथमगाथाक्षरार्थः । कङ्कणिकाकराभरणं कंडगं-वलयं आदिशब्दादन्याभरणसमारचनादि । 'गणत्तिआहारपोअणाइ तह 'त्ति । तथा गणेत्रिकाहारप्रोतनादि, आदिशब्दादन्यदप्येवंविधं साधुजनानुचितं गृहकर्म गृहस्थः साधुमिर्यदि कारयति तदा गृहस्थस्य पञ्चकल्यं प्रायश्चित्तं भवतीति । तथा 'लहू तब्भंगपयधुवणे 'त्ति । तेषां साधूनां श्राद्धन गात्राभ्यङ्गादाने पादधावने च श्राद्धस्य लघुमासः प्रायश्चित्तं भवतीति द्वितीयगाथाक्षरार्थः ।। ६१ ॥
अथ कारणे पार्श्वस्थादीनामवन्दनेऽपि श्राद्धानां प्रायश्चित्तं भवतीत्येतत्प्रतिपादयति
उप्पन्नकारणमि किइकम्मं जो न कुज दुविहं पि ।
पासत्थाईआणं उग्घाया तस्स चत्तारि ॥ ६२॥ व्याख्या-श्रीसङ्घगच्छादिकार्येऽनन्यसाध्ये उत्पन्ने सति कृतिकर्म-वन्दनकं यः श्राद्धादिर्न कुर्यात् द्विविधमपि-अभ्युत्थानवन्दनकरूपं । केषां ? पार्श्वस्थादीनां-पार्श्वस्थावसन्न-कुशील-संसक्त-यथाछन्दानां किं तस्य प्रायश्चित्तम् ? इत्याह-'उग्घाया तस्स चत्तारि 'त्ति । ' उग्घाया नाम जं संतरं दाणं लघुमित्यर्थ' इति निशीथचूर्णिवचनादुद्घाता-लघवः तस्य श्राद्धस्य चत्वारः-चतुर्लघुप्रायश्चित्तं भवतीति भावार्थः ।
अत्र किश्चित् पार्श्वस्थादीनां स्वरूपमावश्यकान्तर्गतषन्दननिर्युक्त्यादिगाथामिः स्पष्टीक्रियते‘सो पासत्यो दुविहो देसे सव्वे अ होइ नायव्वो। सव्वंमि नाणदंसण-चरणाणं जो उ पासमि' ॥१॥ व्याख्या-स पार्श्वस्यो द्विविधो-द्विप्रकारः। तद्यथा-देशे-देशतः सर्वस्मिन्-सर्वतः । तत्राल्पवक्तव्यत्वात् सर्वत आह-सव्वंमी 'त्यादि । सर्वस्मिन् । एष सर्वतः पार्श्वस्थः उच्यते इत्यर्थः । क ? इत्याहज्ञानम्-आमिनिबोधिकादि दर्शनं-सम्यक्त्वं चारित्रम्-आश्रवनिरोधः। एतेषां यः पार्वे-तटे वर्तत इति वाक्यशेषः । ज्ञानादिषु नान्तर्गत इत्यर्थः । देशतः पार्श्वस्थमाह
___देसंमि य पासत्यो सिज्जायरमिहडरायपिंडं वो। नीयं च अम्गपिंडं भुंजइ निकारणं चेव' ॥२॥ व्याख्या- देसंमी 'ति । देश-एष देशतः पार्श्वस्थ उच्यते । क ? इत्याह-यः शय्यातराभ्याहृतराजपिण्डमग्रपिण्डं च भुङ्क्ते निष्कारणमेव । तथा
___ 'कुलनिस्साए विहरइ ठवणकुलाणि अ अकारणे पविसइ । संखडिपलोयणाए गच्छइ तह संथवं कुणइ ' ॥३॥ व्याख्या-कुलनिश्रया विहरति, यानि कुलानि तस्याग्रे सम्यक्त्वं प्रतिपन्नानि तोनि येषु प्रामेषु नगरेषु वा वसन्ति तेषु गत्वा तेभ्य आहारादिकमुत्पादयतीत्यर्थः। तथा अकारणेकारणाभावेऽपि स्थापनाकुलानि प्रविशन्ति । अथवा यानि लोके गर्हितानि कुलानि तानि स्थापितान्यु. च्यन्ते, तेषामपरिभोग्यतया जिनः स्थापितत्वात् । तेभ्य आहारादिकमुत्पादयति । तथा सङ्खड्याः सतत
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org