SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ सहसाकारादिस्वरूपम् जं किंचि कयमकजं न हु तं लभा पुणो समायरि। तं तह पडिक्कमियव्वं न हु तं हियएण वोढव्वं ॥ २७ ॥ व्याख्या-यतः कारणोत् पापान्यनालोचितानि कटुविपाकानि भवन्ति, ततः कारणात् सहसाकारादिमिर्यत् किश्चित्कृतमकार्य नैव तत् पुनः समाचरितुं लभ्यमिति क्रियासम्बन्धः । 'सहस 'त्ति । सहसाकारो-ऽविमृश्यकरणं, यथा पूर्वमदृष्ट्वा पदक्षेपे पश्चाज्जीवदर्शने पदस्य निवर्तयितुमशक्यता । यदुक्तं पुव्वं अपासिऊणं छूढे पाये कुलिंगि जं पासे । न य तरइ निअत्तेउं जोगं सहसाकरणमेअं" ॥ १॥ ति (निशी० भा०) । 'कुलिंगि'त्ति । कुत्सितमनिष्टं लिङ्गमिन्द्रियं यस्य स तथा । यद्वा-कुत्सितान्यसम्पूर्णानि लिङ्गानीन्द्रियाणि यस्य स तथा । उभयत्रापि द्वीन्द्रियादिरिति । अज्ञानेन वा-पञ्चधा प्रमादविरहेऽपीर्यादिष्वनुपयोगेन । तथा चोक्तम् _ 'अन्नयरपमाएणं असंपउत्तस्स नोवउत्तस्स । इरियासु भूयत्थेसु अवट्टओ एवमन्नाणं' ॥ १ ॥ निद्राद्यनन्यतरप्रमादेनासम्प्रयुक्तस्य ‘नोवउत्तस्स इरियासु भूयत्थेसु 'त्ति नो-निषेधे । भूतार्थो नाम विचार-विहार-संस्तार-भिक्षादिका संयमसाधिका क्रिया। धावन-वल्गन-डेपनादिकोऽभूतार्थस्तत ईर्यासमित्यादिषु भूतार्थेष्वनुपयुक्तस्य 'अवट्टओ'त्ति । व्याख्यानतो विशेषार्थप्रतिपत्तिर्भवतीतिन्यायतःप्राणाति. पातेऽवर्तमानस्य यद् भवनम् । 'एवमन्नाण'ति । एवंस्वरूपमज्ञानं भवतीति । तथा भीतेन-अभियोगभयेन पलायमानेन यत्कृतं प्राणव्यपरोपणादि । 'पिल्लिएण व परेणं 'ति । परेण प्रेरितेन द्वीन्द्रियादयः प्रेरिताः। तथा व्यसनेन-धूतादिना, प्रमोदेन-मद्य-विषय-कषाय-निद्रा-विकथालक्षणपञ्चविधप्रमादेन । 'आयंकण व 'त्ति पाठे आतङ्केन-ज्वराशुपसर्गेण, मोहेन-मिथ्यात्वभावनारूपेण, रागद्वेषौ प्रतीतौ। यदुक्तम् 'जूआइ होए वसणं पंचविहो खलु भवे पमाओ अ। मिच्छत्तभावणाओ मोहो तह रागदोसोअ' ॥१॥ इति प्रथमगाथार्थः। जं किंचि 'त्ति। एतैः सहसाकारादिभिरुक्तलक्षणैर्हेतुभिर्यत् किञ्चिन् महत सूक्ष्मं वो कृतमकार्यमकृत्यं प्रोणिवधादि भवति, नैव तदकार्य ‘लब्भ 'त्ति लभ्यं-योग्यं पुनः समाचरितुम् एकश एवालोचयिष्यामीत्यादिबुद्धया भूयः कत्तुं नैव युक्तमित्यर्थः । 'लब्भा' इति तु आकारः प्राकृतत्वात् । पूर्वकृतस्य तु किम् ? इत्याह-'तं'ति । सहसाकारादिहेतुमिः कृतं तदकार्य तथैव-कृतप्रकारे व प्रतिक्रमितव्यम् । प्रतिक्रमणालोचनादिप्रायश्चित्तविषयं विधेयमितिभावः । 'न हु'त्ति । नैव तदकृत्यं लज्जा-भयादिभिह दयेन वोढव्यम् । किन्तु तत्कालमेवालोचनीयमिति द्वितीयगाथार्थः ॥ २७ ।। एवं च को गुण ? इत्याह कयपावो वि मणूसो आलोइअनिदिअ गुरुसगासे । होइ अइरेगलहुओ ओहरियभरुव्व भारवहो ॥२८॥ व्याख्या-कृतपापोऽपि-विहितप्राणिवधायकृत्योऽपि मनुष्यः-पुरुषः आलोचितानि-वाचा गुरोः पुरतः प्रकाशितानि, निन्दितानि-हा ! मया दुष्ठु कृतं दुष्ठु कारितं दुष्ठु अनुमोदितं चेत्योद्यात्मगर्हात्मिकया निन्दया गुरोः पुरत एव जुगुप्सितानि, सूचकत्वात्सूत्रस्य स्वकृतपापानि येन स आलोचितनिन्दितः। Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002631
Book TitleSaddha Jiyakappo
Original Sutra AuthorN/A
AuthorDharmghoshsuri
PublisherJain Shwetambar Murtipujak Sangh Surat
Publication Year2006
Total Pages96
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, & agam_anykaalin
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy