________________
१३
व्याख्या -- यथा सुकुशलश्चिकित्सायामतिनिपुणाऽपि वैद्योऽन्यस्य वैद्यस्य कथयत्यात्मनो व्याधिम् । एवं जानतोऽप्यतिचारानुरूपेण सम्यग् प्रायश्चित्तपदान्यवगच्छतोऽपि गीतार्थस्यापीति भावः । अपिशब्दादजानत: किं वाच्यम् । शल्योद्धरणं परसकाश एव कर्त्तुं युज्यत इति गम्यत इति गाथार्थः ।। १५ ।।
नन्वियमालोचनात्मसाक्षिक्यपि केनापि विधेया उत परसाक्षिक्येव ? उच्यते - परसाक्षिक्येव ।
एतदेवाह -
सूरिगुणाः
.
छत्तीसगुण समन्ना - गएणवि अवस्स कायव्वा ।
परसक्खिया विसोही सुट्ठुवि ववहारकुसलेणं ॥ १६ ॥
व्याख्या - षट्त्रिंशद्गुणैः शास्त्रान्तरप्रसिद्धैः समन्वागतेन - संयुक्तेन तेनाऽप्यशेषमहर्षिजनातिशायितया प्रसिद्धेनाप्याचार्येणेति गम्यते । अवश्यमितिपदस्यावधारणार्थत्वाद् भिन्नक्रमत्वाच्च परसाक्षिक्येव विशोधिः-अतिचारालोचनेन निःशल्यता कर्त्तव्या । कीदृशेन ? इत्याह- 'सुडुवि ववहारकुशलेणं 'ति । सुष्ट्वपि पूर्वोक्तपञ्चव्यवहोरनिपुणेनेति गाथाक्षरार्थः । षत्रिंशद् गुणास्त्वमी -
देश-कुल- जाइ - रूवी संघयणी धिइजुओ अणासंसी । अविकत्थणो अमाई थिरपरिवाडी गहियवक्को ॥ १ ॥ जियपरिसो जियनिदो मज्झत्थो देशकालभावन्नू । आसन्न -लद्ध-पइभो नाणाविह सभासन्नू ॥ २ ॥ पंचविद्दे आयारे जुत्तो सुत्तत्थतदुभयविहिन्नू । आहरण - हेउ - कारण - नयनिउणो गाहणाकुसलो ॥ ३ ॥ ससमय-परसमयविक गंभीरो दित्तिमं सिवो सोमो । गुणसयकलिओ जुत्तो पवयणसारं परिकहेउं ॥ ४ ॥
Jain Education International 2010_05
एतासां गाथानां किञ्चिद् व्याख्या - आर्यदेशोद्भूतः सुखावबोधवचनो भवतीत्यतो देशग्रहणम् | १ | पैतृकं कुलमिक्ष्वाक्वादि ज्ञातकुलश्च यथोत्क्षिप्तभारवहने न श्राम्यतीति । २ । मातृक जातिस्तत्सम्पन्नो विनयादिगुणवान् भवति । ३ । यत्राकृतिस्तत्र गुणा वसन्तीति रूपग्रहणम् । ४ । संहनन- धृतियुक्तो - व्याख्यानादिषु न खेदमेति । ५-६ । अनाशंसी - श्रोतृभ्यो न वस्त्राद्याकाङ्क्षति । ७ । अविकत्थनो - हितमित-भाषी । ८ । अमायी सर्वत्र विश्वस्यः । ९ । स्थिरपरिपाटि :- स्थिरपरिचितग्रन्थस्य सूत्रार्थगलनाऽसम्भवात् । १० । ग्राह्यवाक्यः - सर्वत्रास्खलिताज्ञः | ११ | जितपर्षद् - राजादिसदसि न क्षोभमुपयाति । १२ । जितनिद्रश्चाऽयमप्रमत्तत्वान् निद्राप्रमादिनः शिष्यान् सुखेनैव प्रबोधयति । १३ । मध्यस्थः-शिष्येषु समचित्तो भवति । १४ । देशकालभावज्ञः सुखेनैव गुणवदेशादौ विहरिष्यति । १५-१६-१७ । आसन्नलब्धप्रतिभो- द्राक् परवोद्युत्तरदानसमर्थो भवति । १८ । नानादेशभाषाविधिज्ञस्य नानादेशजाः शिष्याः व्याख्यानं सुखमवभोत्स्यन्ते । १९ । ज्ञानाद्याचारपञ्चकयुक्तः श्रद्धेयवचनो भवति । २०-२१-२२-२३-२४ | सूत्रार्थतदुभयविधिज्ञ - उत्सर्गापवादप्रपञ्चं यथावत् ज्ञापयिष्यति । २५ । हेतूदाहरणनिमित्तनयप्रपञ्चज्ञोऽनाकुलो हेत्वादीनाचष्टे । २६-२७-२८-२९ । ग्रहणाकुशलो बह्वीमिर्युक्तिमिः शिष्यान् बोधयति । ३० । स्वसमयपरसमयज्ञः सुखेनैव तत्स्थापनोच्छेदौ करिष्यति । ३१-३२ । गम्भीरः खेदसहः । ३३ । दीप्तिमान् - पराऽधृष्यः । ३४ । शिवहेतुत्वात्
For Private & Personal Use Only
www.jainelibrary.org