________________
प्रबन्धः
प्रबन्धकोशेत्यपराये
[९] ॥ अथ श्रीबप्पट्टिसरिप्रबन्धः ॥ _ 'गूर्जर'देशे पाडलीपुर'नगरे जितशत्रू राजा राज्यं करोति स्म । तंत्र श्रीसिद्धसेननामा सूरीश्वरोऽस्ति स्म । स 'मोढेर' पुरे महास्थाने श्रीमहावीरनमस्करणाय गतः । "महावीरं नत्वा ५ तीर्थोपवासं कृत्वा रात्रावात्मारामरतो योगनिद्रया स्थितः सन् खप्नं ददर्श, यथा- केसरिकिशोरको देवगृहोपरि क्रीडति। खप्नं लब्ध्वाऽजागरीत् । माङ्गल्यस्तवनान्यपाठीत् । प्रातश्चैत्यं गतः । तत्र षड्वार्षिको बाल एको बालांशुमालिसमद्युतिराजगाम । सूरिणा पृष्टः~ भो अर्भक ! कस्त्वम् ! कुत आगतः ? । तेनोक्तम् १०
- 'पश्चाल'देशे ढुंबाउधी' ग्रामे बप्पाख्यः क्षत्रियः । तस्य भट्टि म सधर्मचारिणी । तयोः मूरपालनामपुत्रोऽहम् । मत्तातस्य बहवो भुजबलगर्विताः प्रचुरपरिच्छदाः शत्रवः सन्ति । तान् सर्वान् हन्तुमहं सन्नह्य चलनासम् । पित्रा निषिद्धः-वत्स ! बालस्त्वम्, नास्मै कर्मणे प्रगल्भसे; अलमुद्योगेन । ततोऽहं क्रुद्धः-किमनेन १५ निरभिमानेन पित्राऽपि यः स्वयमर्गन् न हन्ति मामपि नन्तं निवारयति ? । अपमानेन मातापितरावनापृच्छयात्र समागतः । सूरिणा चिन्तितम्- अहो दिव्यं रत्नम् ! न मानवमात्रोऽयम् ; तेजसां हि न घयः समीक्ष्यते। इति विमृश्य बाल आलेपे-~वत्सक ! अस्माकं पार्थे तिष्ठ निजगृहाधिकमुखेन । बाले- २० नोक्तम्- महान् प्रसादः । खस्थानमानीतः । सन्चो हृष्टस्तद्रूपविलोकनेन । दृष्टयस्तृप्ति न मन्वते । पाठयित्वा घिलोकितः । एकाहेन श्लोकसहस्रमध्यगीष्ट । गुरवस्तुष्टुवुः । रत्नानि पुण्यप्रचय
....१ -प्रती प्रबन्धोऽयं 'आभडप्रबन्ध'प्रान्ले समस्ति । २ ग-'बप्पभरि०' । ३ग-पाटलापुर.', घ.-'पाडलापुर० । क-'भत्र'। ५ग-'श्रीमहा." ६घ-'बा.' । “ग-'सम्बते'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org