________________
प्रबन्धः । प्रबन्धकोशेत्यपराह्वये गोपा हृष्टाः प्रोचुः---वृद्धवादी सर्वज्ञः, अहो कीटक् श्रुतिसुखमुपयोगि पठति । सिद्धसेनस्तु असारपाठक इत्यनिन्दन् । ततः सिद्धसेनः प्राह-भगवन् ! मां प्रव्राजय । तव शिष्योऽहं, वादे सभ्यसम्मतं जितत्वात् । अथ वृद्धवाद्याह- 'भृगु'पुरे राजसभायामावयोर्वादोऽस्तु । गोपसभायां को वादः । सिद्धसेने- ५ नोक्तम्-अहमकालज्ञः, त्वं तु कालज्ञः, यः कालज्ञः स सर्वज्ञः। त्वयैव जितम् । इत्येवं वदन्तं तं तत्रैव दीक्षयामास । ___ तत्र प्रभृति 'भृगु'पुरनरेन्द्रेण तं वृत्तातं ज्ञात्वा 'तालारसो' नाम प्रामः स्थापितः प्रौढः । नाभेयचैत्यं कारितम् । नाभेयबिम्ब वृद्धवादिना प्रतिष्ठितम् । सङ्घो जगर्ज । सिद्धसेनस्य दीक्षाकाले १० कुमुदचन्द्र इति नामासीत् । सूरिपदे पुनः सिद्धसेनदिवाकर इति नाम पप्रथे। तदा 'दिवाकर' इति सूरेः सञ्ज्ञा, स्वामिशब्दवद् वाचकशब्दवच्च । वृद्धवादी अन्यत्र विहरति । सिद्धसेनस्त्व'ऽवन्ती' ययौ। सङ्घः सम्मुखमागत्य तं सूरिं 'सर्वज्ञपुत्रक' इति बिरुदे पठयमाने ऽवन्ती'चतुष्पथं नयति । तदा राजा विक्रमादित्यो हस्ति- १५ स्कन्धारूढः सम्मुखमागच्छन्नस्ति । राज्ञा श्रुतम्--सर्वज्ञपुत्रक इति । तत्परीक्षार्थ हस्तिस्थ एव मनसा सूरेनमस्कारं चकार, न वाक्शिरोभ्याम् । सूरिश्चासन्नायातो धर्मलाभं बभाण । राजेन्द्रेण भणितम्--अवन्दमानेभ्योऽस्मभ्यं को धर्मलाभः ?। किमयं सम? लभ्यमानोऽस्ति ? । सूरिणा श्रुत्वाऽभाणि-चिन्तामणिकोटितोऽप्यधिको- २० ऽयं वन्दमानाय देयः, न च त्वया न वन्दिता वयम् , मनसः सर्वप्रधानत्वात् ; अस्मत्सार्वज्ञपरीक्षायै हि मनसाऽस्मानवन्दथाः । ततस्तुष्टो राजेश्वरो हस्तिस्कन्धादवरुह्य सङ्घसमक्षं ववन्दे कनककोटिं घानाययत् । आचार्यैः सा न जगृहे, निर्लोभत्वात् । राज्ञाऽपि न जगृहे, कल्पितत्वात् । तत आचार्यानुज्ञया सङ्घपुरुषैर्जीर्णोद्धारे २५ व्ययिता । राजवहिकायां त्वेवं लिखितम्
. स्व-'मुपयोगं' । २ ग--'ऽस्माकं'। ३ ख-घ-'सूरिसुत्राम्ला(१)माणि' । चतुर्विशति०५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org