________________
चतुर्विशतिप्रबन्धे [५ श्रीपादालप्ताचार्यपार्श्व खेन गृहीत्वा गतो नागार्जुनः। 'सेडी'सम्झनदीतटे श्रीपार्श्वदृष्टौ रसः स्तम्भितः। 'स्तम्भनकं' नाम तत् तीर्थ पप्रथे, 'स्तम्भनपुरं' नाम पुरं च । __ अथ श्रीपादलिप्ताचार्याः 'प्रतिष्ठान'पुरं दक्षिणाशामुखभूषणं 'गोदावरी नदीतरङ्गरङ्गज्जलकणहृतपान्थश्रमभरं जग्मुः । तत्र सातवाहनो राजा विदुषां योधानां दानशौण्डामा भोगिनां च प्रथमः। तस्य सभायां वार्ताऽभूत् , यथा--- पादलिप्ताचार्याः सर्वधिद्यावनितावदनरत्नदर्पणाः समागच्छन्तः सन्ति प्रातः । ततः सर्वैः
पण्डितैः सम्भूय स्त्यानघृतभृतं कच्चोलकमर्पयित्वा निजः पुरुष एक १० आचार्याणां सम्मुखः प्रस्थापितः । आचार्यैर्घतमध्ये सूच्येका क्षिप्ता।
तथैव च प्रतिप्रेषितं तत् । राज्ञा स वृत्तान्तो ज्ञातः । पण्डिताः पृष्टाः- घृतपूर्णकच्चोलकप्रेषणेन वः को भावः ? । तैरुक्तम्-- एवमेतन्नगरं "विदुषां पूर्णमास्ते यथा घृतस्य वर्तुलकम् , तस्माद् वि
मृश्य प्रवेष्टव्यम्, इति भावो नः । राज्ञा निगदितम्-- तर्हि १५ आचार्यचेष्टाऽपि भवद्भिर्टायताम् , यथा-निरन्तरेऽपि घृते निज
तीक्ष्णतया सूची प्रविष्टा तथाऽहमपि विद्वन्निबिडे नगरे प्रवेक्ष्यामि इति । दध्वनुः पण्डिताः । सर्वे राजेन्द्रोऽपि सम्मुखं गताः सुरसरिल्लहरिहारिण्या वाण्या तुतुषुः । नगरमानीतो गुरुनिर्वाणकलिका
प्रश्नप्रकाशादिशास्त्राणि सन्ददर्भ । एकां च 'तरङ्गलोला नाम २० चम्पूं राज्ञोऽग्रे नवां निर्माय सदसि व्याघख्ये प्रभुः । तुष्टो राजा । भवत्ययं कपीन्द्रः । शाणोत्तीर्णमिवोज्ज्वलद्युति पदं बन्धोऽर्द्धनारीश्वरः
श्लाघालचनजाछिको दिवि लतोद्भिन्नेव धार्थाद् गतिः ।
ग-प्रेषितः' । २ क-'तत:' । ३ क-ख-'घृत सम्पूर्ण ' । ४ ग--'विदुषैः' । ५ ग--'सर्वे पण्डिता राजेन्द्रोऽपि' 1 ६ क-'तुष्टुवुः' । ७ नायं ग्रन्थो दृष्टिपथमायातः। ८ एषा सरसा कथा न वाप्युपलभ्यते । ९ क-व्याचचक्षे'। १० क-ग-'चार्थोदतिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org