________________
झ-परिशिष्टन
१०९,८ संहननषट्कस्य स्वरूपं वर्तते तत्त्वार्थ ( अ. ८, सू. १२ )टीकायां (पृ. १५३-१५४ ) ।
११४, ४ पर्युषणं नाम जैनानामत्युत्तमं पर्व । एतन्महिमादिवृत्तान्तो वर्तते कल्पसूत्रस्य श्री विनयविजयोपाध्यायविरचितायाः सुबोधकाख्याया वृत्तेः प्रारम्भे ।
११२, २१ चिन्तामणिमन्त्रस्य विस्तृतं स्वरूपं न भया कस्मिंश्चिद् ग्रन्थे दृष्टम् ।
१२०, ७ “ कुप्यं रूप्यसुवर्णव्यतिरिक्तं कांस्य- लोह ताम्र-पु-सीसकमृद्भाण्ड-वंश-काष्ठ-हल-शंकट - शस्त्र - मञ्चक-मश्चिका-मसूरकादिगृहोपस्कररूपं" इति श्रीश्राद्धप्रतिक्रमणसूत्र ( गा. १८)वृत्तावर्थदीपिकाभिधायाम् ।
० घत्ता = छन्दोविशेषः ।
१२६, ९ आचाम्लम् = आचामाम्लम् = विकृतिषट्कादित्यागपूर्वकमेकाशनम् । आचामः-अवश्रावणम्, अम्लम् - चतुर्थो रसः, त एव प्रायेण व्यञ्जने यत्र भोजने ओदनकुल्माषसक्तुप्रभृतिके तदाचामाम्लम् । विशेषविवरणार्थिना प्रेक्ष्यतां प्रत्याख्यानभाष्य (गा. ३) वृत्तिः ।
१२३, २०
१३६,१२ रसा - ऽसृङ्- मांस- मेदोऽस्थि-मज्जा-शुक्रेति धातुसप्तकम् । १५९,१६ अच्युतकल्पम् = द्वादशं स्वर्गम् ।
१६८,२५ पुरुषकसिद्धिः कथं भवतीति न विस्तारेण ज्ञायते ।
१८६, १ रघुवंशे ( स. ४, श्लो. ४९, स. ६, श्लो. ६० ) पाण्ड्येति निर्देश: । पाण्डूनां जनपदानां राजा 'पाण्ड्यः' इति मल्लिनाथकृतायां सञ्जीवनवृत्तौ ।
कायोत्सर्गः = आसनविशेषः । उक्तं च योगशास्त्रे
१९६,१४
२४५, १
}
(प्र. ४ ) - “प्रलम्बितभुजद्वन्द्व-मूर्ध्वस्थस्यासितस्य वा ।
स्थानं कायानपेक्षं यत्, 'कायोत्सर्गः' स कीर्तितः ॥ १३३ ॥ "
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org