________________
चतुर्विंशतिप्रबन कारितमित्याद्युल्लेखो वर्तते। जैनपरम्परानुसारेणैतस्योत्पत्तिः विक्रमसंवत्सराद् द्विशताब्दीपूर्विका, यतोऽवन्तीसुकुमालः श्रीआर्यसुहस्तिसूरेः शिष्यः । एतत् स्थानं सिमानदौसमीपेऽस्तीति निर्देशः प्राचीनग्रन्थेषु । "कुडङ्गको वृक्षलतागहनं" इत्यमरकोशे तृतीये काण्डे ( श्लो. १७)। अनेनानुमीयते यदुतैतद् . वृक्षलतामयं सम्भवति । अधुना महाकालेति प्रसिद्धं स्थानं सिप्राः पूर्वे तटे पिशाचमुक्तेश्वरेऽस्ति । प्राचीनसमयान्महाकालस्य महिमा वर्तते, यतः स्कन्द-मत्स्य-नारसिंहपुराणेषु रघुवंशे ( स. ६, श्लो. ३४)
मेघदूते ( श्लो. ३४) चैतस्य भावनामय निर्देशो वरीवति । ३६,६-७ प्रभावकचरित्रे ' मा रोव मोडहिं ' स्थाने ' मन आरामा म
मोडहु' इति विशिष्टं पाठान्तरम् । तत्रास्य पद्यस्यार्थत्रितयमेव दार्शतम् , अधिकार्थसूचनसामर्थ्याभावात् । श्रीवृद्धवादिना
त्वनेकेऽर्था सूचिता इति श्रीप्रभाचन्द्रसूरेरभिप्रायः । ३९, १२ जीवादितत्त्वार्थश्रद्धानं सम्यक्त्वमुच्यते । अस्य विवेचनं विद्यते
तत्त्वार्थ( अ. १, सू. २, ३, ७, ८ )टीकायाम् । ३९, १२ द्वादशवतीनामार्थ प्रेक्ष्यतां ७६तमे पृष्ठेऽष्टमं टिप्पणकम् । ४२, ११ सिद्धसारस्वतस्य विस्तृतं स्वरूपं न मे नयनगोचरतां गतम्। ४३, ८ सौरमन्त्रः कीदृगिति निवेदने नाहमलं, साधनाभावात् । ४३, ११ वैक्रियं शरीरं द्वितीय, शरीराणां पञ्चविधत्वात् । एतत्स्वरूपं
समस्ति तत्त्वार्थ(अ. २, सू. ३७-३९, ४१)टीकायाम् । ४४, ७ सूक्ष्मकर्करस्य स्वरूपं स्पष्टं नावगम्यते । ४६, ११ (द्वादशार)नयचक्राभिधो ग्रन्थो न कुत्राप्यधुना दृश्यते । ५७, १० 'डीसा'तो वायव्याकोणे दश क्रोशान् यो ग्रामोऽस्त्यधुना स
रामसैन्याभिध इति सम्भावना क्रियते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org