________________
प्रमा
प्रबन्धकोशेत्यपराहये अत्रान्तरे श्रीवीरधवलोऽचिकित्स्येन व्याधिना जग्रसे । तदा वीरमः स्वसहायैर्बलवान् भूत्या राज्यार्थ राणकमिलनमिषेण 'धवलक'मागात् । तदैव श्रीवस्तुपालेन तं दुराशयं ज्ञात्वा प्रत्युत्पनमतित्वादश्व-गज-हेमादिषु परमात्ममानुषैः परमो यत्नः कृतः । वीरमः प्रभवितुं न शशाक । 'धवलक्क' एव स्वसौधे विपुले- ५ ऽवतस्थौ । दिनैस्त्रिाभिर्वीरधवलो दिवं गतः । लोकः शोकसमुद्रे पतितः । बहुभिश्वितारोहणं कृतम् । मन्त्री तु सपरिजनः काष्ठानि भक्षपमपरापरैर्मन्त्रिभिनिषिद्धः । उक्तं च-देव ! त्वयि सति राणपादाः स्वयं जीवन्तीव लक्ष्यन्ते । त्वयि तु लोकान्तरिते परिपूर्णाः पिशुनाना मनोरथाः । गता 'गूर्जर'धरा इति ज्ञेयम् । ततो न मृप्तो १० मन्त्री । उस्थापनदिने मन्त्री श्रीवस्तुपालः सभासमक्षं पठति
भायान्ति यान्ति च परे ऋतवः क्रमेण __ सबातमेतदृतुयुग्ममगत्वरं तु । वीरेण वीरधवलेन विना जनानां
वर्षा विलोचनयुगे हृदये निदाघः ॥ १ ॥ १५ अतीव निःश्वस्य गताः सर्वेऽपि स्वस्थानम् । ततश्च मृते वीरधवले तद्राज्यलिप्सुर्वीरमः सन्नह्य गृहानिर्गमिष्यति यावता तावता श्रीवस्तुपालेन वीसलः कुमारो राज्ये विनिवेशितः । वीसलदेव इति नाम प्रख्यापितम् । सर्वराज्याङ्गेष्वाप्तनरैः रक्षा कारिता । स्वयं वीसलं गृहीत्वा साराऽश्वखुरपुटक्षुण्णक्षमापीठोच्छलद्रजःपुञ्जस्थगि- २० तव्योमा राजन्यकक्रूरकरवालशल्लभल्लकिरणद्विगुणद्योतितरषिकिरणो वीरमसम्मुखं ययौ । दारुणः समरो जज्ञे । वीरमः स्वस्य तेजसोऽनवकाशं मन्यमानो नष्ट्वा श्वशुरेण राजकुलेन उदयसिंहेनाधिष्ठित 'जावालि' पुरं प्रत्यचालीत् । मन्त्री तस्याशयं दक्षतया ज्ञात्वा षोडशयोजनिकान् नरानुदयसिंहान्तिके प्रैषति आल्यापयत् , यथा- २५
ग-'चिन्तारोपणं इतम्' । २ वसन्त । ३ ख-जालहुरपुरं । चतुर्विधति. १२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org