________________
प्रबन्धः ]
प्रबन्धकोशेत्यपराये दत्तः। 'तत्क्षणमेव वैरोटथयोत्तारितः । पानीयेनाभिषिक्तास्ते ततः स्वस्थाः सम्पन्नाः । एकस्तु शिशुर्विपुच्छो जातः । यदा स स्खपति क्षितौ तदा वैरोख्या ब्रूते-बण्डो जीवतु । वैरोव्याजातकस्य स्नेहेन मोहितास्ते सर्वे बान्धवरूपाः सर्पाः क्षौमरत्नस्वर्णादि दत्त्वा नामकरणं च कारयित्वा यथास्थानं ययुः । वैरोटया ५ नागप्रभावात् गौरवपात्रं जाता।
अन्यदालिञ्जरः स्वपुत्रं पुच्छरहितं दृष्ट्वा चुक्रोध । 'मम पुत्रः केन दुरात्मना विपुच्छः कृतः । ततो वैरोख्यया कृतो विपुच्छो मे पुत्र इत्यवधिना ज्ञात्वा "वैरोव्याया उपार पूर्व सुप्रसन्नोऽपि चुकोप। कुपितः सन् विरूपं कर्तु वैरोब्यागृहमगमत् । १० अलिञ्जरो गूढतनुगृहमध्ये स्थितः । यदा वैरोठ्या ध्वान्तभरे सति गृहापवरकमध्ये प्रविष्टा तदा तयोक्तम्- बण्डो जीवतु "चिरम् । तच्छ्रुत्वा नागराजः सन्तुष्टस्तस्यै नूपुरे ददौ । अद्यप्रभृति वत्से ! स्वया पाताले आगन्तव्यम् , नागाश्च त्वद्गृहमेष्यन्ति इति प्रसादः कृतः । सा वैरोख्या पाताले गमनागमनं करोति । १५ नागवरात् नागदत्त इति नाम दत्तं पुत्रस्य । तदा पद्मदत्तो वैरोट्याश्वशुरः श्रीआर्यनन्दिलक्षपणकैरेवमुक्तः-- त्वया स्ववश्वग्रे कथनीयम् , नागाश्रयं गतया त्वया नागा वक्तव्याः भवद्भिर्लोकस्यानुग्रहः करणीयः, कोऽपि न दंष्टव्यः । तत् सूरिवचनं श्वशुरेण तस्यै, तथा च नागेभ्यः कथितम् । तत्र गता च वैरोटया एवमुच्चैर्जगौ--- २० सालिञ्जरपत्नी जीयाद् सोऽलिञ्जरो जीयात् 'येनाहमपितृगृहाऽपि सपितृगृहा कृता, अनाथाऽपि सनाथा जाता ।
१ग-पुस्तके ' तत्क्षणमेव ' एतदधिकम् । २ क- सुस्थाः '। ३ ‘बाँडो' इति गूर्जरभाषायाम् । ग-पुस्तके 'मम' इत्यत आरभ्य 'इति' एतत्पर्यन्तमधिकं विद्यते । ५ क-खप्रत्यो : 'वैरोट्या' इत्यत आरभ्य 'कर्तुं' एतत्पर्यन्तं न दृश्यते। ६ क-खतनुर्मध्ये'। ७ ग--पुस्तके : चिरं' अधिकं विद्यते। ८ क-खप्रत्योः 'नागदत्त इति नाम दत्तं पुत्रस्य' एतन्न दृश्यते। ९ ग--' कर्तव्यः'। १० क--'येनाहमपि सपितृगृहा कृता'। ११ ग• म्जाता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org